________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिव संक्लेशयति । इयं गाथाक्षरयोजना भावार्थस्त्वयम्-केनापि राज्ञा अमात्य आज्ञप्तः शीघ्रं प्रासादः कारयितव्यः । स चामात्यो द्रव्ये लुब्धः तान् कार्मकान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति । कथमित्याहआलोयणा सक्कयं सुक्खं नोपगामं व दवतो । खेत्ताणुचियं उण्हे काले उस्सूरभोयणं ॥ ३१॥ भावे न देति विस्सामं निहरेहिं य खिसइ । जे यं भित्तिं च नो देइ अकयदंडणा ॥ ३११ ॥
द्रव्यतोऽलवणमसंस्कृतं विशिष्टसंस्काररहित, शुष्क वातादिना शोष नीतं ववचनकादि तदपि न प्रकामं न परिपूर्ण ददाति । चत्रतो यत्तस्मिन् क्षेत्रे अनुचितं भक्तं पानं वा ददाति तथा उष्णे कर्म कारयति कालतउत्सूरे भोजनं दापयति भावतो न ददाति विश्राम, निष्ठुरैश्च वचनैः खिसयति जितमपिच कर्मकरणतो लभ्यमपि वृतं मून्य न ददाति । एवं च सति ते कर्मकराः प्रासादमकृत्वापि नष्टाः पलायिता स्थितः प्रासादोऽकृतो राज्ञा चैतत् ज्ञातं ततोऽमात्यस्य दण्डना कता अमात्यपदाच्यावयित्वा तस्य सर्वस्वापहरणं कृतमिति एष दृष्टान्तः । साम्प्रतमुपनयनमाहअकरणे पासायस्स उजह सो मच्चो उ दंडितोरना। एमेवय पायरिए उवयणं होति कायव्वं ॥३१॥
. यथा प्रासादस्याकरणे सोऽमात्यो राजा दण्डित एवमेवाचार्य उपनयनं भवति कर्तव्यं, । तथैवं राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याचार्यस्य सिद्धिप्रासादसाधनार्थमादेशो दत्तः। स च कर्मकरस्थानीयानां साधूनां द्रव्यादिषु तत्करोति यथा ते सर्वे पलायन्ते तथा चाह
For Private and Personal Use Only