________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यावदेकत्रिंशत्कवला: । षण्मासानुपवासं कर्तुमशक्नुवन् एकेन दिवसेनोनं पएमासक्षपणं कृत्वा एवमेव सिक्थकवलपरिवख्या पारणकं कुर्यात् । एवमेकैकहान्या षण्मासक्षपणं तावद्वक्तव्यं यावच्चतुर्थ कृत्वा पूर्वप्रकारेण सिक्थकवलपरिवर्धनेन पारणक परिभावयेत् । अथ न संस्तरति ततो दिने दिने भुंक्त्वा तत्राप्येवमेव सिक्थादारभ्य यावद्वात्रिंशत्कवला इति अत्र चोदकवचनं यद्येवमष्टावित्यादि सूत्रोपनिबद्धं नाममात्र प्रवचनमात्रमाचार्य पाह-सिद्धिप्रासादनिर्मापणाय योगानां संधारणनिमित्तमेतन्मध्यमुपात्तं सूत्रेण ततो न कश्चिद्दोषः तथा चात्र प्रासादो भवति दृष्टान्तः स चाग्रे भावयिष्यते । सम्प्रति यदुक्तं छम्मास हायते उ बत्तीसा इति तद्भावनार्थमाहछम्मासा खमणं तंमि सिस्थादण्हा तु लंबणं । ततो लंबणवड्डीए जावेक्कतीस संथरे ॥ ३०३ ॥ एक्कमेक्कं तु हावेत्ता दिणं पुव्वकमेणो। दिणे दिणे उ सित्थादी जावेक्कतीस संथरे ॥३०४॥ __षण्मासक्षपणान्ते सिक्थमेकमादिशब्दात् असंस्तरणे द्वे त्रीणि चत्वारि इत्यादि परिग्रहोऽश्नातु भुक्ते मे (न) संस्तरणे च सिक्थपरिवृद्धिस्तावत्कर्तव्या यावलम्बनं केवलो भवति तेनाप्यसंस्तरणे दात्रिंशदपि द्रष्टव्याः । परमेतत्कस्यापि कदाचिदन्यथाप्रकामभोजित्वदोषप्रसक्तेर्यत आह-रत्तो एगेण वि कवलेण ऊणगमाहारे माणे(ण) समणे निग्गंथे पगामरसभोइ त्ति वत्तव्यं सिया । इह प्रकामग्रहणेन निकाममपि सूचितमतो द्वे अपि व्याख्यानयति । पगाम होइ बत्तीसा निकामं होइ निच्चसो । दुपविजया ते उगही हवति वजिया ॥ ३०५॥
For Private and Personal Use Only