________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथाप्यदृष्टेऽनुपलब्धे वा तृतीये पृच्छयते । एवं त्रिषु चलकेषु समवसरणेषु मध्ये यतैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति । अथ न दृष्टः केवलमुपलब्धो वार्त्तया यथाभुकस्थाने स तिष्ठतीति स तत्र स्वयं वा नयति । अन्यस्य वा हस्ते प्रेषयति । अथ त्रिष्वपि समवसरणेषु न दृष्टो नाप्युपलब्धस्तत आह ॥ एगे वि महंतमि उ उग्घोसाऊण नाउ नेइ तहिं । अह नत्थि पवत्ती से ताहे इच्छाविवेगो वा ॥२२॥
महति समवसरणे पुनरेकस्मिन्नपि कुत्रामुक इत्युद्घोषणं कृत्वा यदि स्वयं दृष्टस्तत इच्छाकारपुरस्सरं तथैव समर्पयति । अथ वार्तयोपलम्चस्तर्हि तत्र स्वयं नयति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा अथ तत्रापि न दृष्टो नाप्युपलब्धस्ततो द्वितीयं चारं महत्समवसरणं न गच्छति किन्तु इच्छा स्वयं तत्पात्रं धारयति अन्यस्मै वा ददाति विवेगोवेति परिष्ठापयति वा अथ येषां ददतामेकस्यानेकेषो वा सकाशात् गृहीतव्यं ते किं सांभोगिका उतासांभोगिका एवं प्रश्ने कृते प्रथमत एकानेकप्ररूपणामाहएगे उ पुव्वभणिए कारणनिकारणे दुविहभेदो। आहिंडगउहाणे दुविहा ते होंति एक्क ॥२६३ ॥ ___ एकाकी द्विविधभेदः पूर्वमोघनिर्युक्तौ भणितस्तद्यथा-कारणे निष्कारणे च । पुनः साधवो द्विविधा-आहिण्डका अवधावने च । एकैके द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतः कारणनिष्कारणकैकप्रतिपादनार्थमाह
For Private and Personal Use Only