________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
209
APPENDIX II.--cuntinnnel.
आनंदरसकूपारं सत्यसंधविचक्षणं ॥१०॥ श्रीमाधवाचार्यवयं तस्य शिष्यं गुणाकरं ॥ राधाकृष्णयशोगीतं चाश्रयं भक्तपक्षिणां ॥ ११ ॥ बलभद्राचार्यदेवं तस्य शिष्यधुरंधरं ॥ वंदेहं सततं श्रीमद्भक्तिवृक्षालवालकं ॥ १२ ॥ पद्माचार्यमहं वंदे तस्य शिष्यगणाधिपं ।। श्रीमंतं दिग्विजेतारं नेतारं साधुतः पति [ ॥ १३ ॥ श्यामाचार्यमहं वंदे तस्य शिष्यजनेश्वरं ॥ सदाचारप्रकाशं वै त्रासकं भक्तवैरिणां ॥ १४ ॥ श्रीगोपालाचार्यधुर्यं तस्य शिष्यमहेश्वरं ॥ वंदेहं सर्वदा श्रीमद्वेदवेदांत पारगं ॥ १५ ॥ तच्छिष्यं श्रीकृपाचार्य वंदेहं सत्यवायिकं ॥ राधाकृष्णकृपामति रसाधीशप्रदायि(य)कं ॥ १६ ॥ देवाचार्यमहं वंदे तस्य शिष्यसुखावहं ॥ सर्वलोकविजेतारं वादिनागगणे हारें ॥ १७ ॥ गुणागुणसतां नेता पापभेत्ता कुयोगिनां ॥ महाधुर्थः सर्वदा मां देवाचार्यः प्रसीदतु ॥ १८ ॥ श्रीमत्सुदरभट्ट तच्छिष्यछत्रं द्विजेश्वरं ॥ वंदे राधाकृष्णलीलागायि(य)काचार्यनायि(य)कं ॥ १९ ॥ तच्छिष्यं श्रीपद्मनाभं वंदेहं प्रेमसागरं ।। व्रजलीलाप्रकाशं श्रीरसाधीशे सुनागरं ॥२०॥ उपेंद्रभट्टनामानं वंदे तच्छिष्यनायकं ॥ राधाकृष्ण महालीलागायि(य)कं प्रेमदायि(य)कं ॥२१॥ तच्छिष्यं श्रीरामचंद्रं भट्ट वंदे महाप्रभुं ॥ वृंदावनेशलीलानां प्रकाशं रागमार्गगं ॥ २२ ॥ तच्छिष्यं श्रीवामनाख्यं भट्ट वंदे जनाधिपं ॥ वेदागमपुराणानां सारंसारं प्रकाशकं ॥२३ ॥ तच्छिष्यं श्रीकृष्णभट्ट कृष्णभक्तारिमर्दनं । वंदेहं सर्वदा तं वै भक्तिविघ्नार्दनं सतां ॥ २४ ॥ } 904-27
For Private and Personal Use Only