SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. 29 तेषामेवाधिश्वरगणिनां श्रीमन्महेंद्रसूरिवराः । सकलागमपारगता धर्मकथाकथननिरताश्च ॥८॥ अपरेपि पार्श्वदेवाभिधानगणिनः प्रधानमंत्रज्ञाः । उचितन्या(?)अभ्यर्थितसूराः संग्रहपराश्च दृढं ।। ९ ।। अन्येपि देवचंद्राभिधाख्या गणिनः क्रियापराः सरलाः । क्षांत्यादिधर्मनिधयः परहितनिरतयो विनीताश्च ॥ १० ॥ एते त्रयोपि शिष्याः सकलजनानंददायिनोत्यर्थं । देवानामपि बंद्या नंदंतु चिरंतना वलये ।। ११ ॥ येषां भक्तप्रदानमुख्योपष्टंभप्रसादेन । नितरां निराकुलेनाकारि मयैषा स्फुटा वृत्तिः ।। १२ ।। श्रीनेमिचंद्रसूरिश्रीजिनदत्ताभिधानसूर्याद्यैः । श्रीमत्यणहिल्लपाटकपुरे व्यशोधीयमुपयुक्तैः ॥ १३ ॥ पश्यति तथापि यदि कोपि दूषणं किंचिदल्पमितरद्वा । तन्मयि कृतानुकंपः स शुद्धधीः शोधयेद्विवुधः ॥ १४ ॥ कस्य न छद्मस्थस्यानाभोगः स्यादतीव विदुषोपे । नितरां विमुग्धवुद्धेः किं पुनरस्मादृशजनस्य ॥ १५ ॥ यावच्चंद्रो यावञ्च भास्करो यावदमरगिरिमुख्याः ।। निष्ठंति जगति तावन्नंदतु सुतरामियं वृत्तिः ।। १६ ॥ इति वृत्तिमिमां कृत्वा यत्किंचिदुपार्जितं मया पुण्यं । तेनैतस्याः पाठे समुद्यतो भवतु साधुजनः ॥ १७ ।। एवं सप्तसहस्रा शतषटुं चैकसप्ततिधास्याः । द्वात्रिंशदक्षरमितैः श्लोकैः सर्व प्रमाणमिति ॥ ग्रंथाग्रं श्लोकसंख्यायां ।। ७६७१ ॥ इति वीरगणिविरचिता या शिष्यहिता नाम पिंडनियुक्तिवृत्तिः समाप्तेति || शिवमस्तु सर्वजगतः ॥ ॥ मंगलं महाश्रीः ।।।। For Private and Personal Use Only
SR No.020606
Book TitleReport On Search For Sanskrit MSS Year 1880 1881
Original Sutra AuthorN/A
AuthorF Kielhorn
PublisherGovernment Central Book Depot
Publication Year1881
Total Pages121
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy