________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
PALM-LEAF MSS.
तच्च संसारिजीवस्य वृत्तं भवविरंजनं । आकर्ण्य भव्य पुरुषः प्रबुद्ध इति कथ्यते || तथा संसारिजीवेन भूयो भूयः प्रचोदिता । प्रबुद्धा गृहीतसंकेता कृच्छ्रेणेति निवेद्यते || इह च ॥
आसाद्य निर्मलाचाय्यें केवलालोकभास्करं । समस्तोप्यात्मवृत्तान्तः पृष्टः शिष्टावधारितः ॥ तथा सदागमादुच्चैर्भूयो भूयः स्थिरीकृतः । संजातावधिना तेन ततोयं प्रतिपादितः || अन्यच्च ||
इहान्तरं गलोकानां ज्ञानं जल्पो गमागमः । विवाहो बंधुतेत्यादिः सर्व्वा लोकस्थितिः कृता || सा च दुष्टा न विज्ञेया यतोपेक्ष्य गुणांतरं । उपमाद्वारतः सर्व्वा वोधार्थं सा निवेदिता |
तः ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यक्षानुभवात्सिद्धं युक्तितो यन्न दुष्यति । सत्कल्पितोपमानं तत्सिद्धांतेप्युपलभ्यते ||
:
:
तदेतदंतरंगायाः शरीरं प्रतिपादितं । वहिरंगकथायास्तु शरीरमिदमुच्यते ॥ पूर्व्वविदेहे सन्मेरोः सुकछविजयप्रभुः । क्षेमपुर्यां समुद्भूतश्चक्रवर्त्यनुसुंदरः || स च स्वायुष्कपर्यंते निजदेशदिदृक्षया । विनिर्गतो त्रिलासेन प्राप्तः शंखपुरे न्यदेत्यादि ॥
For Private and Personal Use Only