________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
पढमो ऊसासो
हर्षवश-विसर्पद्-हृदया उन्मिषित-वदनारविन्दा भानुमती पत्यु:पूर्वमेव कथयितु प्रवृत्ता- "अभिनन्दनम् ! अभिनन्दनम् ! भवतो वरस्य, अनुगृह्णातु ! अनुगृह्णातु ! यक्षनाथ ! लक्ष्मी विनिमयेन लभामहे यदि वयं कुल-भास्करस्यदर्शनम् । न अत्र विमर्शनीयं किञ्चिदपि । पुत्रविहीनानां विक्ष भ्यति प्रतिपलं हृदयम् । पुत्र दृष्ट्वा सर्व तद् दारिद्रय-जनितं दुःखं विस्मृतं भविष्यति । तस्माद् देव ! करोतु कृपाम् ।” तत्कालं कृपालुना यक्षेण 'तथास्तु' इति अर्पितं वरम् । प्राञ्जलिपुटाभ्यां स्थितं दम्पतीभ्याम् । अन्तर्धां प्राप्तं तत्क्षणं यक्षयुगलम् ।
व्यतिक्रान्तः कोऽपि कालः । ससत्त्वा जाता भानुमती। उद्वेलितो जातो हर्ष-पारावारः । 'गुर्विणी श्रेष्ठिनी' इति सर्वैः तक्कुअजनैः (स्वजनजनैः) ज्ञातं सानन्दम्। किन्तु चिरसंचिता विभूतिः अनुदिनं पलायितु प्रवृत्ता। एकतः आकर्ण्यते यत् विविध-महार्य-विक्रयभरिता तरणी मध्ये समुद्र ब्र डिता। परतः सन्देशः प्राप्तो यत् कुत्रापि गोधूमादीनां धान्यानां महाभाण्डागारं अकस्मात् अग्निना दग्धम् । अन्यतः दविष्ठ-देशतः प्रवृत्तिः लब्धा यत् अमुकः प्रमुखः बाणोत्तरो गुर्वी सम्पदं गृहीत्वा पलायितः । इतः व्यापारेष्वपि सर्वेषां वस्तूनां भावाः मन्दत्वं गताः । षट्षु मासेषु श्रेष्ठी समन्ततः द्रारिद्रयण पराभूतः । कर्मकराः भृत्याः वाणिजिकाः, चिरपरिचिता अपि श्रेष्ठिनं मुक्त्वा परसत्काःभूताः। तथैव मित्राणि, स्वजनाः, दायादाः, सहचराः अपि विमुखीभूताः । स्थावरा जङ्गमा अपि च
सगर्भा ७ उद्वेलितः ८ तक्कुअजनः-स्वजनः (देशीयः) ६ आकर्ण्यते १० बाणोतरः – देशीय-शब्दः ‘गुमास्ता' इतिभाषा ११ वाणिज्यकराः १२ परसत्काःपरकीया इत्यर्थः १३ पु० नं० यथा-मित्तो, सही, वयंसो (पाइयलच्छी १६१)
For Private And Personal Use Only