SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमा ऊसासो नः (अस्माकम्) मनोरथकल्पवृक्षः । 'अस्ति आशा अमरधनम्' इति प्रसिद्धा लोकोक्तिः । तस्मात् न हताशैः भवितव्यं अस्माभिः । तत्क्षणमेव तत्र प्रादुर्भूतं यक्ष-यक्षिणी-युगलगम् । रुदती भानुमती अनुकम्पमानया यक्षिण्या अग्रे गच्छन्तं यक्ष न्द्र अनुरुध्य दर्शनं दत्तम् । जिज्ञासितं सहानुभूतिपूर्णः मधुरशब्दैः तया चिन्तायाः प्रयोजनम् । प्ररुदितवदनया भानुमत्या तद् युगलं प्रणम्य प्रवेदितं सर्वमपि शोककारणम् । पुत्र-वन्ध्यं शून्यं जीवितं न चिरं सोढुं शक्यम् । अद्यतनं सुदिनं अस्मदीयं, यस्मिन् दिव्यं दर्शनं अनायासं लब्धम् । नूनं नष्टाः प्रत्यूहाः । उदीर्णानि मङ्गलानि । प्रवृद्ध शुभोदर्केण । अकथनीयप्रभावाः भवन्ति खलु वृन्दारकाः । कुर्वन्तु अनुग्रहम् । यत: भवन्ति अनुग्रहशीलाः महानुभावाः, इत्थं विनयमाना भानुमती निपतिता तेषां चरणयोः। अत्रान्तरे हृदयालु-यक्षाधिपतिना अवधि प्रयुज्य विलोकितं तेषां भविष्यम्। विमनायमानेन यक्ष शेन प्रत्युत्तरितं तत्कालम् - "इभ्यवर ! वीडितोऽहं भवामि वरं अर्पयितुम् । शृणु, भविष्यति ते पुत्रो लक्ष्मीप्रणाशेन सार्धम् । त्यक्तव्यं युवाभ्यामपि इदं पुरगृहादिकम् । पुत्रोऽपि वृद्धि लप्स्यते पर-हस्तगतः । किं अर्पयामि वरम् ?' यथा सयराहं नवरि य दुत्ति झत्ति सहसत्ति इक्कसरिअं च । अविहाविअं इक्कवए अतक्किअं तक्खणं सहसा । -(पाइयलच्छी० १७) ४ प्ररुदितवदनया ५ नअण णाई नअर्थे (हे० २-१६१) ६ उदीर्णानि ७ वृद्ध ८ शुभोदण ६ अकथनीया १० वृन्दारका:--- देवाः ११ ब्रीडित:लज्जितः १२ अर्पयितुम् १३ अर्पयामि । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy