SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो ऊसासो प्रलुठन्ति च । अहं तु कीदृशी अधन्या अपुण्या ऊषर-धरणी-संकाशा यस्यां न एकमपि बीजं परिस्फुटितं भूतम् । इह भुवनतले अवतीर्य केवलमहं स्त्री-आल्यां बिन्दुस्थानं प्राप्ता। प्रियवर ! . कथं खेदो जायते भवत: वज्रकठोरे हृदये ? कियान् कालो व्यतीतः प्रवृत्त अस्माकं पाणिग्रहणे; तथापि न अर्पितं देवेन कुलदीपकं एकमपि अपत्यम् । नाकर्णिता स्वप्नेऽ.प जात-कथा। प्रस्तुताः अनेके उपायाः स्तोकवेलायां आशा-प्रकाशं दर्शयित्वा अन्ते फेन-बुबुद्-सन्निभाः अदृष्टाः जाताः । कुलभास्करं विना को नु एतादृश्याः महालक्ष्म्याः संरक्षिता भविष्यति ? सकल-पुरजन-प्रतिष्ठितं भवतः अभिधानं किं न नाम विस्मृतं भविष्यति आगामि-वंशपरम्परायाम् ? एवं सगद्गदाक्षरं भणन्ती भानुमती पुनरपि रोदितु आरब्धा। अन्त: संधुक्षितं शोकज्वलनं कथंकथमपि निर्वाप्य श्रेष्ठिना कथितम्- "सुभगे ! तत्व-विज्ञात्री भूत्वापि कथं उल्लम्बितानि निरर्थचिन्तावितानानि ? न जानासि किं अनुल्लंघनीया 'खु (खलु अर्थे) दैविकी रेखा । वहनीयः एव अनेष्टव्योऽपि पामरेण जन्तुना कृतकर्मणां भारः। किं न अनुतिष्ठामः वयं प्रतिदिनं पुत्र-प्रतिज्ञया कमपि कमपि उपायं, तथापि न भवति यदि फलीभूता अस्माकं आशा तदानीं अन्तराय-विजृम्भितमेव ज्ञातव्यं तत् । अद्यापि न विनष्टं किमपि ! प्रनष्टा भवेयुः यदि घनोत्करा इव पुण्य-प्रभञ्जन-स्फेटिताः प्रत्यूहाः । भवेत् शीघ्रमेव फलितः, पुष्पितो २-१२५) ६ संरक्षिता, शीलाद्यर्थस्येरः (हे० २-१४७) ७ विस्मृतम् ८ जाज्वल्पमानम् ६ निर्वाप्य १० तत्वविज्ञात्री ११ दैविकी १२ अन्तरायविजृम्भितमेव । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy