SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः उच्छवासः व्यतीत-प्रायाः षण्मासाः। न कथमागतोऽद्यप्रभृति राउल: ? किं न मिलितौ मे पितरौ तस्मै ? वजन् स कि पथभ्रष्टो जातः ? कस्मिन् पुरेऽत्यन्त-जनभक्ति-मोहितो वा किं तत्र व स्थितः ? प्राकृतशोभा-मण्डिते कस्मिन्नपि गिरिकन्दरे ध्यानस्थो वा भूतः ? हा ! स्खलितं मया ज्ञायकेनापि, कथमज्ञायको राउलः प्रस्थापितो देशान्तरे ? नो, नो, अस्ति सोऽतीव कार्य-कुशलो महात्मा इङ्गिताकार-सम्पन्नः समयज्ञः उद्यमशीलः प्रवर्धमानोत्साहः सत्यसन्धश्च योगी । तस्मात् व्रजामि दक्षिणापथं प्रतिपालयामि आगच्छतः पथिकान् । संभावयामि काऽपि राउल-प्रवृत्तिः प्राप्ता भवेत् ! एवं विचिन्तयन् रत्नपालः उत्सुकतया गच्छति प्रत्यहं दक्षिण-दिग्भागम् । दूरेण आगन्तुक-जनान् प्रलोकते, प्रतीक्षते, निरीक्षते च तस्य मिलना ऽऽशया। तदिग्भागात् आगतान् आध्विकान् रुन्ध्वा-रुन्ध्वा राउलस्य २२७ For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy