SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो २२५ "वीडिता भवामो वयं तव सेवया योगीन्द्र ! अस्ति अस्मादृक्षाणां कर्तव्यं साधूनां सेवायाः तत्र प्रत्युत गृह्यते तव सेवाऽस्माभिः । न योग्यमिदम्, तस्मात् न स्थास्यामः शकटे वयम्' कथितं साभारं श्रेष्ठिना। 'प्रथमं किल स्थविराणां वैयावृत्यं कर्त्तव्यं, नास्मादृशानां बालकानाम् । नूनमासितव्यं युष्माभिः' एवं मा ! मा! कथयन्तावपि जम्पती सानुरोधमारोहितौ सच्छाये शकटान्तराले राउलेन । कीदृशो महानुभावोऽयं निष्कारणमुपकारी राउलः ! कथमुपचरति गुरुजनान् इव अस्मान् ! अथवा प्रकृतिसिद्धमिदं मनस्विनाम् । अहो ! कथं पिपासाहारकं नीरम् ? कथं क्षुधाशामकं वा कूरम् ? कथं प्रकाशकरो भानुः ? कथं शीतलो वा चन्द्रः ? अस्तु, एताभ्यां बहु अनुरुद्धोऽपि न स्वयमारोहति कदापि शकटम् । भिक्षाचर्यया भक्तमानीय स्वहस्तेन रन्ध्वा, इमौ भोजयित्वा, पश्चात् स्वयमेकवारं भोजनं करोति । इत्थं बहुसुखेन एतौ नयन् अविच्छिन्नं पन्थानं कल्पयमानोऽभिपुरिमतालं सत्वरं व्रजति राउलः । अहो कीदृशं पौरुषम् ! इति श्री चन्दनमुनि-विरचितायां निजगृहगमन-राउलप्रस्थापन-जिनदत्तमेलन-चन्दनग्रहण-प्रत्यावर्तनादिवर्णनैः शोभितायां रत्नपाल-कथायां षष्ठः उच्छवासः समाप्तः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy