________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमो ऊसासो
१५१ चिन्तनीया स्थितिः जायते पश्चात् ? एवं भविष्य-दक्षेण भूपतिना कथितम् – “जामातः ! साधु निश्चितं गन्तव्यम् । तत्रापि एकाकिना गन्तव्यमिति बहुसाधु निश्चितम् । सत्यं खलु आभाणकं इदं यत् 'परे किल परायन्ते निजाः एव निजायन्ते' न अत्र सन्देहः । यदि गन्तव्यं तदा गच्छतु सुखेन, कः प्रतिषेधति, परं ईषत्कालं यावत् स्थातव्यं इति अस्माकं समीहा । एकाकि-गमन-समीहा तु नितान्तं हास्यपदम् । प्रोषितपतिकायाः युवत्याः का अवस्था भवति इति न विभावितं त्वया ? शोभते किल धनाधनेन समं सौदामिनी। तथा पत्या सार्ध शोभते नित्यं एकपत्नो । क्षेत्रिकं विना क्षेत्रभूमिः इव, मालाकारं विना पुष्पवाटी इव न राजते दयित-विरहिता अन्याश्रया वनिता। अक्षिकण्टकायन्ते छोक्करीओ (कन्याः) स्वच्छन्दं पितृगृहं चिरं तिष्ठन्त्यः । ततः भार्या-द्वितीयेन एव त्वया वजनीयं इति अस्माकं मतम् । यथा अस्माकं कर्त्तव्यभारः लघुकः स्यात् । इतरथा यूयं तत्र, वयं अत्र निरन्तरं चिन्तादूनहृदयाः स्थास्यामः । इत्थं सुष्ठु बोधितोऽपि रत्नपालो न कथमपि निजां भार्यां सह नेतु तत्परो जातः ।
राज-राज्ञीप्रभृतयः अत्र अलब्ध-प्रतीकाराः कि अनुष्ठातव्यमिति उत्त्रस्ता जाताः तावत् एकः कोऽपि विविध-यन्त्र-मन्त्र-तन्त्र-विशारदः परिणतवयाः जटिलः अलक्षितः कुतोऽपि आपतितः । सपतीकेन राज्ञा सविनयं वन्दितः, यथोचितं पूजितः स निर्भरं प्रसन्नमनाः जातः।
६ णे-नः अस्माकम् १० मतम् ११ जटिलः । 'जटिले जोझो वा (हे० १-१२४)।
For Private And Personal Use Only