________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमो ऊसासो
१३७ भवेत् विधि-नियोजितम् । अथवा विमलं भागधेयं कथं, कदा, कुत्र, प्रतिफलति इति अगम्यं गुह्यम् । ददामि अनायासं आनीतानि तानि निरर्थ परिष्ठापितव्यानि मे सुमानि । इति विमृश्य कुमारेण सहौदार्य मधुरं आलपितम्-- "अस्ति मन्त्रिप्रवर ! युष्माभिः अति अन्वेषितं तद् वस्तु अनायासं आगतं मया सार्धम् । इतः किं अधिकं भव्यं यद् मामकं वस्तु नगरनाथस्य कार्यमेति । कथं यथेप्सितं मूल्यं ग्राह्यमिति कथितम् ? मूल्यं तु भवादृशानां कृपाक्षिविकूणितमेव अस्मादृशानां । प्रतिपालयन्तु क्षणं भवन्तः, यथा अहमपि युष्माभिः समं पुष्पोपढौकनमिषेण-नृपतिदर्शन-लाभं ग्रहीतु शक्नोमि ।"
बहुवरम्, झगिति भवत सज्जाः यूयम् । प्रतीक्षते रणरणकेन नरपतिः तत्र । 'अय आगच्छामि' इति भणन् रत्नपालः तत्कालं परिधृत-नृप-सभोचित-नेपथ्यः, धारित-नानाविधालङ्कारः, गृहीतउपदीकरणाह-विशिष्ट-वस्तु-निचयः, सुसज्जित-पुष्पकरण्डिकः, अनेकैः निजमनुजैः परिवारितश्च अमात्येन-साकं नृपतिदर्शनार्थं निर्गतः । तृपेणापि लब्धा इयं प्रवृत्तिः यत् एको बाल: पोतवणिग् गृहीत्वा तानि पुष्पाणि मां साक्षात्कर्तु मागच्छति इति । अधृति प्राप्तः नृपः प्रेक्षते तस्य मार्ग, तावद् मन्त्रिणा सार्धं उसलिअ-रोमकूपः (रोमाञ्चितः) उपनतः जिनदत्तसुतः। कृतं सविनयं नृपतेः अभिनन्दनम् । जाता औपचारिकी वार्ता । प्राभृतीकृतं अन्यद् महायं वस्तु, पुष्पाणि पुनः । हृष्टो जातो नृपः । विहितः कुशलवैद्यवरेण औषध-प्रयोगः । अस्ख
५ गृहीतोपदीकरणाहविशिष्टवस्तुनिचयः ६ रोमाञ्चितम् (देशीयशब्दः) ७ औपचारिकी
For Private And Personal Use Only