SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमी ऊसासो १३५ कतिपय सभ्य - नगर - महत्कैः समं अचिरं आगतः सविधं एतस्य सचिव : नयनाभ्यां अमृतं वर्षयन् । जातो जयजिनेन्द्रादिविधिः । पृष्ठं कुशलम् । कुतः समागमनम् इति पृच्छा पुनः ? धृति प्रधानेन प्रधानेन परिचितः कृतोऽयं नृपतेः दुःसहाक्षिवेदनया । कृताः नानोपचाराः, परं न भूतः आमोपशमः, प्रत्युत परिवर्धिता पीडा । आगतः कोऽपि एक: अनुभवि तल्लजोऽगदङ्कारः । कृतं निदानम् । लब्धा यथार्था स्थितिः । प्रस्तुतं भैषजं, परन्तु तद् दाडिम धातकी -सुमैः सार्धं प्रयुज्यते इति तेषां मार्गणा कृता । विधिवशतः, कुत्रापि न मिलितः भृशं गवेषयतां अपि अस्माकं तेषां संयोगः । आतुरस्य क्षणमात्रमपि दुःसहं, विषमं च, तथापि अशक्ये निरुपाये किं कर्तुं शक्यम् ? अतर्कितं श्रवणकुहरमागतं यत् कोऽपि सांयान्त्रिकः समुद्रतटे उत्थम्भितः । पीडितानां मनःसु सर्वतः परिस्फुरति कापि आशा लहरी । सम्भवेत् आगन्तुकस्य समीपं तद् वस्तु । तस्माद् आगताः आस्माका: मनुजाः अहमपि तदर्थमेव उपस्थितोऽस्मि । गृहातु यथेप्सितं मूल्यं, दातव्यं जीवनदायकं अमूल्यं तत् । नास्ति मूल्यवत् वस्तु किन्तु मूल्यवान् समयः । तस्माद् यदि अस्ति तत् सानुग्रह अविलम्बेन वितरतु भवान् । निःसन्देहं नीरोगो नृपः शुभायति हेतुर्भविष्यति भवतः । विगत - कैतवं आकर्ण्य अमात्यभारती प्रत्ययितं जातं रत्नस्य अन्तःकरणम् । महद् आश्चर्यमिदं यत् अतितुच्छमपि वस्तु अतुच्छ लाभकारणं I प्रयोगः । यथा-सव्वाहि नयविहीहि ४ उत्थम्भितः - रुका हुआ (इतिभाषा ) ५ विगतकैतवम् ६ प्रत्ययितम् । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy