________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
पंचमो ऊसासो तानि महारुग्णस्य नरनाथस्य चिकित्सा-निमित्तम् । यदि सन्ति तदा अवश्यं दातव्यानि त्वया। एष महामूल्यः अवसरो न भ्र शितव्यः समयज्ञन” एवं कथयन्तौ प्रत्युत्तरं प्रतीक्षमाणौ तूष्णीको स्थितौ ।
अहो ! धूर्तानां अकलनीया कला। अलक्षणीया विद्या। अनवगन्तव्यं तत्त्वम् । कथं ज्ञातं एताभ्यां दाडिम-धातकी-पुष्पाणां गुह्यम् ? विचित्रः किल पर-प्रतारण-विद्यायाः प्राथमिकः प्रयासः इति सशङ्को जातः कुमारः । अथवा भवेद् अन्धवर्तकीयमिदम् । दक्षतया ददामि अस्य प्रत्युत्तरं यथा न विनष्टं भवति सामयिकं कृत्यम् । किञ्चित् चिन्तयित्वा सूचितं रत्नेन-“सम्भवेत् रोगाणां भीषणमाक्रमः । प्रतिक्रियाऽपि तेषां नानौषधोपचार-साध्या। पुष्पाणां हेतोः युष्माकं उट्टङ्कनाऽपि नानुचिता। तथापि अपरिचिताः वयं इहत्य-मनुजैः । ततः कथं प्रतीमो यत् युष्माकं मार्गणं यथार्थमिति । यदि स्वयं राजमन्त्री अत्र आगत्य समीचीनतया प्रकटयति व्यतिकर, कुरुते च विश्वस्तं अस्माकं मनः । नूनं यथेप्सित-वस्तूपलब्धिः भाविनी इति सम्भावनीयम् ।
निशम्य रत्नपालस्य युक्तियुक्तं वचनं उत्फुल्लौ सञ्जातौ तौ दण्डपाशिकौ । शीघ्र महामात्यं प्रस्थापयावः तद् गृहीतुम् इति कथयन्तौ सहसा धावितो तो नगर-दिशम् । नाना-विध-कल्पनापरो विधिप्रवरः कुमारस्तत्र व स्थितः अदृश्यं भविष्यं गवेषयन् ।
न्याय: प्रवर्तते । यथाऽन्धेन करौ प्रलम्बायिती, सहसा वर्तकः पक्षी कराभ्यां गृहीतस्तेन । २ इहत्यमनुजैः । ३ दण्डपाशिकः 'सिपाई' (इतिभाषा) ४ कुमारः ।
For Private And Personal Use Only