________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोत्थो ऊसासो
१२६ कुमार ! ततः प्रभृति अहं यत्र तत्र भ्रमामि, परन्तु न कोऽपि मम प्रवृत्ति शृणोति । अस्तु, इदमेव कथनस्य तात्पर्य यत् त्वया अतोव कुशलत्वेन वर्तितव्यम् अन्यथा न कुशलमिति मन्तव्यम् । संक्षेपेण एवं निवेद्य ‘मा कोऽपि मां पश्यतु' इति तत्क्षणं पलायितः सः ।
संस्मृता रत्नेन अनुभविनः स्थविरस्य शब्दाः ? हन्त । अज्ञातं विधिविलसितं अनभिलषितं स्थानं आगतम् । सम्प्रति किं कत्र्तव्यमिति चिन्तातुरः जातः कुमारः।
इति श्री चन्दनमुनि-विरचितायां नगरात् प्रस्थानकालकूटद्वीपागमन-निकृतिघटनाश्रवणादिभावैः शोभितायां रत्नपाल-कथायां चतुर्थः
उच्छ्वासः समाप्तः
For Private And Personal Use Only