________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ उच्छ्वासः
अस्ति एष त्रैलोक्य-विदित: प्रकृत्याः नियमः यत् यादृशी शुभाशुभा यस्य भावना तादृशः एव परिणामः पुरस्सरो भवति । नित्यं आम स्मरन्तः भवन्ति आमयाविनः तथा आरोग्यं कल्पन्त: अरोगाः । न तैः कदापि उच्चैः पदं प्राप्यते येषां मनसि नित्यं अनाशा, दौर्बल्यं, आत्मनोऽपि च अविश्वास: परिस्फुरति । “गतगता अस्मादृशानां दिवसाः । सम्प्रति तु यथाकथञ्चित् कालः यापनीयः अस्माभिः । आगमिष्यति अस्माकमपि कोऽपि अनुलोमोऽवसरस्तदानीं चिन्तयिष्यामः किमपि कर्तुम्" इत्थं ये प्रतिसमयं निजकं वैकल्यं अनुभवन्ति, न ते पञ्चजनाः कुत्रापि कृतार्थाः, फलित-मनोरथाः, साकार-स्वप्नाश्च भवितु अर्हन्ति । वर्तन्ते येषां उदारा विचाराः, शुभङ्करा कल्पना,
१०७
For Private And Personal Use Only