________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोगुणाः-नाडीहिङ्गु कटूष्णं च कफवातातिशान्तिकृत् । विष्टम्भनविबन्धामदोषघ्नं दीपनं परम् ॥४१॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःनाडीहिङ्गु पलाशाख्या जन्तुका रामठी च सा । वंशपत्री च पिण्डाहा सुवीर्या हिङ्गुनाडिका ॥ ६४ ॥
गुणाः—नाडीहिङ्गु कटूष्णं च कफवातातिशान्तिकृत् । विष्ठाविवन्धदोषनमानाहामयहारि च ।। ६५ ॥
(१९) तुम्बुरुः। *तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः । *तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ॥ ४२ ॥
गुणाः-तुम्बरुः कटुतीक्ष्णोष्णः कफमारुतशूलजित् । अपतन्द्रोदराध्मानकृमिघ्नो वह्निदीपनः ॥ ४३ ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:* * ॥ ६६ ॥ स्फुटफलः सुगधिश्च स प्रोक्तो द्वादशाहयः ।
गुणाः--तुम्बरुमधुरस्तिक्तः कटूष्णः कफवातनुत् । शूलगुल्मोदराध्मानकमिनो वह्निदीपनः ॥ ६७ ॥
(२०) सूक्ष्मैला । सूक्ष्मैला द्राविडी सुत्था कोरङ्गी बहुला त्रुटिः । एला कपोतवर्णा च चन्द्रबाला च निष्कुटी ॥४४॥
गुणाः-सूक्ष्मैला मूत्रकृच्छ्नी श्वासकासक्षये हिता । सूक्ष्मैला शीतला स्वादुहृद्या रोचनदीपनी ॥४५॥ .
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःएला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्युटिः । कपोतवर्णी गौराङ्गी बाला बलवती हिमा ।। ६८॥ चन्द्रिका चोपकुञ्ची च सूक्ष्मसागरगामिनी । गर्भारिर्गन्धफलिका कायस्थाऽष्टादशाह्वया ॥ ६९ ॥
भद्रेला ( एलाविशेषः ) ॥ १० ॥ भद्रला बृहदेला तु त्रिपुटा त्रिपुटोद्भवा । स्थूलैला त्वक्सुगन्धा च पृथ्वीका कन्यका पुटा ॥४६॥
गुणाः—एला तिक्ता च लध्वी स्यात्कफवातविषत्रणान् । बस्तिकण्डुरुजो हन्ति मुखमस्तकशोधनी ॥ ४७ ॥
१ ग. घ. ङ. तन्त्रोद । २ क. ङ, त्रिदिवा । ३ क. ङ. कण्ठरु ।
For Private and Personal Use Only