SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ धन्वन्तरीयनिघण्टुः- [ शतपुष्पादिकोगुणाः--सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् । त्रिदोषशमनं पूर्त वणदोषविबन्धजित् ॥ ३४ ॥ सैन्धवं द्विविधं ज्ञेयं शीतं रक्तमिति क्रमात् । रसवीर्यविपाकेषु गुणाढ्यं पूतनं शिवम् ॥ ३५ ॥ (१२) बिडम् (विडम् ) विडं कृत्रिमकं धूर्त क्षारं द्रावणमासुरम् । सुपाक्यं खण्डलवणं कृतकं चेति नामतः ।। २८॥ गुणाः-सक्षारं दीपनं शूलहृद्रोगकफनाशनम् । रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ॥ २९॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःविडं द्राविडकं खण्डं कृतकं क्षारमासुरम् । सुपाक्यं खण्डलवणं धूर्त कृत्रिमकं दश ॥ ३६॥ गुणाः-विडमुष्णं च लवणं दीपनं वातनाशनम् । रुच्य चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ ३७॥ (१३) अक्षम् । अक्षं सौवर्चलं प्रोक्तं रुचकं हृद्यगन्धकम् । तिलकं कृष्णलवणं तत्काललवणं स्मृतम् ॥ ३०॥ गुणाः-लघु सौवर्चलं पाके वीर्योष्णं विषदं कटु । गुल्मशलविबन्धनं हृद्यं सुरभि रोचनम् ॥ ३१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःसौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् । अक्षं च कृष्णलवणं हेच्यक द्राधिकं तथा ॥ ३८ ॥ गुणाः—सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् । ऊर्ध्ववातामशूलार्तिविबन्धारोचकाञ्जयेत् ॥ ३९ ॥ (१४) उद्रिदम् (औद्भिदम्) *औद्भिदं पांशुलवणं रोमकं वसुकं वसु । उखरं पांसवक्षारमौर्व सार्वगुणं तथा ॥ ३२॥ . * आयुर्वेदविज्ञाने-औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् । १ ख. ग. छ. द्राविडमा । २ ख. कृत्रिमं । ३ ग. छ. झ. नं सूक्ष्मं हूँ। ४ ङ. रेचनम् । ५ ज. रुच्यं कादवि । ६ स. उद्भिदं । ७ क. ख. द. 4 सर्वगुणोत्तरम् । गु। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy