________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्वितीयो वर्गः] राजनिघण्टुसहितः।
(१०) 'टङ्कणः (त्रिक्षारान्तर्गतः) टङ्कणष्टकणक्षारो मालतीरससंभवः । द्रावी द्रावणकश्चैव लोहानां शुद्धिकारकः ॥२२॥
गुणाः-कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः । स्थावरादिविषन्नश्च कासश्वासापहारकः ।। २३ ॥ विरूक्षणोऽनिलहरः श्लेष्महा पित्तदूषणः । अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणक्षार उच्यते ॥ २४॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:टङ्कणष्टकणक्षारो रङ्गक्षारो रसाधिकः । लोहदावी रसनश्च सुभगो रङ्गदश्च सः ॥ २८ ॥ वर्तुलं कणकक्षारं मलिनं धातुवल्लभम् । त्रयोदशाहयश्चात्र कथितं तु भिषग्वरैः ॥ २९ ॥ ___ गुणाः—कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः । स्थावरादिविषघ्नश्च कासश्वासापहारकः ॥ ३०॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
__टङ्कणम् ( टङ्कणभेदः)॥२॥ द्वितीयं टङ्कणं श्वेतं श्वेतकं श्वेतटङ्कणम् । लोहशुद्धिकरं सिन्धुमालतीतीरसंभवम् ॥ ३१ ॥ शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥
गुणाः-सुश्वेतं टङ्कणं स्निग्धं कटूष्णं कफवातनुत् । आमक्षयापहच्छासविषकासमलापहम् ॥ ३२॥
(११) सैन्धवम् । सैन्धवं सिन्धु सिन्धूत्थं नादेयं सिन्धुजं शिवम् । शुद्धं शीतशिवं चान्यन्मणिमन्थं शिलात्मकम् ॥ २५ ॥ __ गुणाः—सैन्धवं शिशिरं स्निग्धं लघु स्वादु त्रिदोषजित् । हृद्यं हृन्नेत्ररोगघ्नं वणारोचकनाशनम् ॥ २६ ॥ सैन्धवं स्वादु चक्षुष्यं वृष्यं रोचनदीपनम् । अविदाहि विवन्धघ्नं सुखदं स्यात्रिदोपजित् ॥ २७ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः-- सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् । शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ ३३ ॥ ___+ टङ्कणशोधनम्-टङ्कणं वह्नियोगेन स्फुटितं शुद्धतां व्रजेत् । टङ्कणोऽग्निकरो रूक्षः कफन्नो वातपित्तकृत् ॥ १॥ १ घ. वः । सौभाग्यद्रावक । २ ज. सितक्षारं । ३ क. ख, घ, शिवात्मजम् । ग. शिलालकम् ।
१०
For Private and Personal Use Only