________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२) पाम् । गुडूच्यादिप्रथमवर्गपरिमितमेवैतत्पुस्तकम् । नास्त्य
स्मिञ्शकलेखः। (छ.) इति संज्ञितम्–श्रीमन्महादेव चिमणाजी आपटे इत्येतैः 'वोदर'
इत्याख्यराजधानीतः समानीतम् । शकदर्शनमस्मिन्न वर्तते । अस्य ग्रन्थस्य सप्तमाद्वर्गात्पुरः कानिचित्पृष्ठानि गलितानि वर्तन्ते। द्विशतसंवत्सरावधिको लेखनकालो वर्तत इति लेखन
दर्शनेनानुमीयते। धातुशोधनमारणादिविषयोऽत्र न वर्तते । (ज.) इति संज्ञितम्-राजनिघण्टुपुस्तकम्-पुण्यपत्तनस्थानां माटे इत्युपाह्वानां वे.
शा. रा. रा. कृष्णशास्त्री वैद्य इत्येतेषाम् । तत्र लेखनशको न वर्तते । तथाऽप्येतत्पुस्तकं पञ्चसप्ततिवर्षदेशीयं भवतीति मे मतिः । एतदप्यंशतो मदीयपुस्तकानुसारि । अस्मिन्पुस्तके
नास्ति धातूनां शोधनमारणादिप्रकरणम् । (म.) इति संज्ञितम्-आनन्दाश्रमस्थं संस्करणार्थ लिखितं पुस्तकम् । (अ.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्, रा. रा. “श्रीपतराव
छत्रे वकील" इत्येतेषाम् । (ट.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , खेडग्रामनिवासिनां रा० रा०
'नागुभाऊ वकील ' इत्येतेषाम् । (3.) इति संज्ञितम्-राजनिघण्टुपुस्तकमेतत् , रा. रा. 'श्रीपतराव छत्रे
वकील' इत्येतेषाम् । (ड.) इति संज्ञितम् -राजनिघण्टुपुस्तकम्, रा० रा. 'नागुभाऊ वकील' इत्ये
तेषाम् । (ढ.) इति संज्ञितम्-चिंचवडग्रामनिवासिनो चापेकर इत्युपाह्वानां वे० शा० रा.
रा० 'गणेश विनायक' इत्येतेषाम् । राजनिघण्टुपुस्तकमेतत्। (ण.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , चिंचवडग्रामनिवासिनां रा०
रा० चापेकर इत्येतेषाम् । (त.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्,-आनन्दाश्रमपुस्तकसंग्रहाल.
यस्थम् । समाप्लेयमादर्शपुस्तकोल्लेखपत्रिका ।
For Private and Personal Use Only