________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१०
परिशिष्टो
[ रोगादि:
( १२ ) आमरक्तामयौ - आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ||२२|| ( १३ ) ज्वालागर्दभकः – ज्वालागर्दभकः प्रोक्तो ज्वालारासभकामयः । ज्वालाखरगदो ज्ञेयः स गर्दभगदस्तथा ।। २३ । (१४) विद्रधिः - विद्रधिः स्याद्विदरणं ( १५ ) हरून्थिः —– हृद्रन्थिर्हद्व्रणश्च सः ।
(१६) भगंदर : - व्रणो भगप्रदेशे यः स भगंदरनामकः ॥ २४ ॥
( १७ ) शूल: - शिरः शूलादयो ज्ञेयास्तत्तदङ्गाभिधानकाः । इत्थमन्येऽपि बोद्धव्या भिषग्भिर्देहतो गदाः ।। २५ ।।
(१८) संताप :- संतापः संज्वरस्तापः शोष ऊष्मा च कथ्यते ।
( १९ ) अन्तर्दाहः --- यश्चापि कोष्ठसंतापः सोऽन्तर्दाह इति स्मृतः ||२६|| (६०) दाहादयः --- स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु । पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥ २७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
(६१ ) तन्द्रा -- तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा । ( ६२ ) प्रलयः - प्रलयस्त्विन्द्रियस्वापश्चेष्टानाशः प्रलीनता ॥ २८ ॥ (६३ ) उन्मादः – उन्मादो मतिविभ्रान्तिरुन्मनायितमित्यपि । ( ६४ ) आवेश : - आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ।। २९ ।।
( ६५ ) अपस्मारः–अपस्मारोऽङ्गविकृतिर्लोलाङ्गो भूतविक्रिया । ( ६६ ) स्तैमित्यम् - स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ ३० ॥ ( ६७ ) साधारणव्याधिः -- वातिको वातजो व्याधिः पैत्तिकः पित्तसंभवः । श्लैष्मिकः श्लेष्मसंभूतः समूहः सांनिपातिकः ॥ ३१ ॥
( ६८ ) रोगविशेषनामानि ——- तद्विशेषास्तु विज्ञेयास्तन्मत्वर्थीययोगतः । यथा ज्वरितकण्डूलवातकक्षयदगुणाः ।। ३३ ।।
(७०
3
( ६९ ) रोगिवर्तनम् — उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः । विश्वासी ऋजुरास्तिकः सुचरितो दाता दयालुः शुचिर्यः स्यात्काममवञ्चकः स विकृतो मुच्येत मृत्योरपि ||३१|| ) चिकित्सा — उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया । निग्रहो वेदनिष्टा क्रिया चोपक्रमः समाः ।। ३५ ।।
( ७२ ) कुवैद्याः - अधीरः कर्कशः स्तब्धः सरोगो न्यूनशिक्षितः । पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि || ३६ ||
( ७२ ) ओषधिखननम् – यथावदुत्खाय शुचिप्रदेशजा द्विजेन कालादिक
For Private and Personal Use Only
१ ज. 'विभ्रंश उन्म । २ ज. “तिललान्धो भू° । ८. 'तिर्लालाधो भू । ३ ज. झ. ढ. 'क्तोऽति । ४ झ. द. निष्ठा क्रि । ५ झ, ढ. नित्यशिक्षकः ।