________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८ अष्टादशो वर्गः] राजनिघण्दुः।
३९५ (१४) युववृद्धनामानि । युवा वयस्थस्तरुणो वृद्धस्तु स्थविरो जरन् । प्रवया यातयामश्च जीनो जीर्णश्च जर्जरः ॥१२॥
(१५) बालिकानामानि । बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी ।
(१६) कन्यागौयो । कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा ॥ १३ ॥
(१७) मध्यमा। सा मध्यमा वयस्था च युवती सुस्तनी च सा । चिरण्टी सुवयाः श्यामा प्रौढा दृढ(टोरजाश्च सा ॥ १४ ॥
(१८) गुर्विणी । गुर्विण्यापनसत्त्वा स्यादन्तर्वत्नी च गर्भिणी ।
(१९) वृद्धा। निष्फलां चातिवृद्धा स्यात्स्थविरा च गतातर्वा ॥ १५ ॥
(२०) रजस्वला। पुष्पिता मलिना म्लाना पांसुला च रजस्वला ।
(२१) वन्ध्या । वन्ध्या च केशिनी शून्या मोघपुष्पा वृथार्तवा ॥ १६ ॥
(२२) अवयवः । अङ्गमंसः प्रतीकश्चापधनोऽवयवोऽपि च ।
(२३)शिरः। शिरःशीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् । वराङ्गमुत्तमाङ्गं च कपालं केशभृत्स्मृतम् ॥ १७॥
(२४) केशकेशबन्धौ। केशाः शिरसिजा बालाः कुन्तला मूर्धजाः कचाः। चिकुराः करुहाश्वाथ तद्वेष्टा कबरीमुखाः ॥ १८॥
१ ज. ट. °ला जरती वृद्धा स्थवि । २ ज. ट. शभूः स्मृत ।
For Private and Personal Use Only