________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२] ३. यत्र यत्र पर्यायशब्दविषयकः संशयोऽभूत्तत्र तत्र सुश्रुतभावप्रकाशवाचस्प त्यशब्दरत्नाकरादीन्ग्रन्थविशेषान्समाश्रित्य तच्छेदः कृतः । अत एव तेषां ग्रन्थानां कर्तृन्भृशं समानतोऽस्मि ।
४. संप्रति धन्वन्तरीयनिघण्टुमधिकृत्य किंचिदक्तुं सांप्रतमेव । अयं ग्रन्थो धन्वन्तः र्यन्तेवासिनां केनचिदपि च्छात्रेण प्रथित इति वक्ष्यमाण श्लोकान्त्यार्थेन ध्वन्यते । एतच्चास्य ग्रन्थस्यानुक्रमणिकायां षष्ठवर्गस्यान्त्यश्लोकार्धम्- 'द्रव्यावलिः समादिष्टा धन्वन्तरिमुखोद्गता' इति ।
जीवत्स्वायुर्वेदाचार्येषु धन्वन्तरिप्वस्य ग्रन्थस्य विरचना जातेत्युदितवचनात्सुनिश्चितमेव । अपरं च । अस्य ग्रन्थस्य सुलभा श्लोकरचना सुश्रुतग्रन्थेनास्य सादृश्यं प्रकटी करोति । विक्रमसभास्थितेषु नवकविरत्नेषु 'धन्वन्तरिः' इति कविवर्योऽभूत्तेन धन्व. न्तरीयनिघण्टुरयं प्रणीत इति केषांचिन्मतम् । किंतु धन्वन्तरिः साक्षादादिदेव इति सुश्रुतेऽपि प्रथमाध्याये कथितम् । षथा
"अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् ।
शैल्यङ्गमञ्जरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम्' इति । सत्यां वस्तुस्थित्यामीदृश्यां धन्वन्तरीयनिघण्टुर्विक्रमकालीन इत्यसंभाव्यमेव ।
१. मम हस्ते संनिहितेषु सर्वेषु पुस्तकेषु पुस्तकद्वयं वर्जयित्वा धातूनां शोधनमारणात्मकं प्रकरणं न संगृहीतम् । न च तद्राजनिघण्टावपि दृश्यते । अत एव यत्र यत्र यस्य यस्य धातोर्नामगुणा लिखितास्तत्र तत्र तस्य तस्य धातोः शोधनमारणं टिप्पण्यां दत्तम् ।
है. यैः सद्गहस्थैर्धन्वन्तरीयनिघण्टुराजनिघण्ट्वोः पुस्तकानि मदुपयोगार्थ दत्तानि तेषामभिधानमालाऽनया भूमिकया सह सादरं संयोजितैव । मया स्वाध्ययनकर्मणि नियुक्तं धन्वन्तरीयनिघण्टोः पुस्तकमधिकृत्यास्य ग्रन्थस्य मूलं कल्पितम् । तथैव मम पितृव्यभ्रात्रोः पुरन्दरोपाहयोर्वैद्यबल्लाळात्मजानन्तराघवाभिधानयोः '१७७३' इति शकाब्दे लिखितं पुस्तकं वे० शा० रा. 'आचार्योपाहगणेशात्मजानां घुनाथशर्मणां' पुस्तकं तथैव ' महादेवात्मजश्रीकृष्ण' इत्येतेषां '१९२१' इति काब्दे लिखितं पुस्तकं च मम हस्ते संनिहितमासीत् । सुपरिशुद्धं लिखितमकथित
शोधनमारणविषयमेतत्पुस्तकत्रयं भृशं ग्रन्थकर्मणि मदुपयोगार्थतां गतम् । एतस्मितकत्रय एकार्थद्वयर्थव्यर्थादिवर्गो वर्तते । अन्येप्वत्र कथितेषु पुस्तकेष्वयमुद्दिष्टो
For Private and Personal Use Only