________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः। प्रस्ताविकालेखः।
धन्वन्तरीयनिघण्टुरित्यभिधोऽयं ग्रन्थोऽतीव प्राचीनश्चिकित्सकानामत्यन्तोपयोगी च । अत एव तं मुद्रितं कृत्वा प्रकाशं निनीष्वेव मे मनो बहुसमाः । परं सांसारिकैविविधव्यवसायैरेतादृशश्चित्ताभिप्राय एतावत्कालं मनोरथमयः संजातः । एवं समतीतेषु दिनेषु संप्रत्ययं ग्रन्थो मुद्रितव्य इति मनसि स्पृहा भृशं समजायत । विधेः सुनियोगेनैष मे चित्ताभिप्रायोऽस्मन्मित्रवर्याणां वेदशास्त्रसंपन्नानां श्रीमतां 'इसलाम. पूरकर' इत्युपाधिधराणां पण्डितवामनशास्त्रिणां कर्णपथं समायातः । तैश्चायं ग्रन्थ आनन्दाश्रमे मुद्रणीय इति योजना कृता । अनन्तरं श्रीमद्भिः ' महादेव चिम. णाजी आपटे ' इत्येतैः सम्यगनुज्ञातोऽहमेतस्य पूर्वस्थितस्य ग्रन्थस्य विरचनां कर्तुं समारब्धवान् ।
२. श्रीमद्भिः 'महादेव चिमणाजी आपटे' इत्येतैरस्मदुपयोगार्थ धन्वन्तरीयनिघण्टोादश पुस्तकानि दत्तानि । मम सकाशे ग्रन्थस्यास्य त्रीणि पुस्तकान्यासन् । एतेषां पुस्तकान्तराणां संमीलनादयं हस्तस्थितो ग्रन्थो धन्वन्तरीयनिघण्टुरित्यभिधः सुपरिणामः । अथ माघाख्ये मासे श्रीमद्भिः 'महादेव चिमणाजी आपटे' इत्येतैः सह कदाचिदहं सुसंगतः । तस्मिन्समये प्रस्तुतो यथादृष्टो 'धन्वन्तरीयनिघण्टुः । वैद्यानां सम्यगुपयोगार्थमलं न वेति तेषां संजातायां पृच्छायां मयाऽप्यनुवादः कृतो यथाऽस्य ग्रन्थस्यातितरां प्राचीनत्वादोषधीनां संप्रति मिन्ननामपर्यायत्वाच्च सांप्रतिकानां चिकित्सकानां पूर्णोपयोगार्थ न तावदयं ग्रन्थोऽलं भवत्यत एवैष ग्रन्थो 'नरहरपण्डितविरचितराजनिघण्टुना' यदि संयोजितस्तहि सम्यग्भविष्यतीति । श्रीमन्म. हादेव चिमणाजी आपटे इत्येतैरप्यस्मिन्प्रकाशं नीते मन्मनोगतेऽनुमोदितः । अनेनैव कारणेन 'धन्वन्तरीयनिघण्ट्र राजनिघण्टुसहितः' इत्यस्याभिधानं कृत्वाऽयं ग्रन्थः संशोधितः । एवं ग्रन्थनिर्झरिण्योः संभेदं कृत्वैकौघभूता प्रवाहवेणिका प्रस्तुतग्रन्थरूपेण या मया कल्पिता तस्या विरचनाकर्मणि ये दुःसहाः श्रमास्त्रयोदशमासाम्यधिककालपर्यन्तं व्याप्तेन मयाऽङ्गीकृतास्तेषां प्रतिभा लेखालेख्ये दर्शयितुं न तावच्छक्यम् । प्रत्ययान्तरार्थं यानि पुस्तकान्यानीतानि तेष्वतीवभेदो दृष्टः । सुचिरं तद्गतानां पाठान्तराणां विचार्यकीकरणकर्मणि मयाऽऽत्मा संत्रासभाजनं कृतः । यदि तावन्मया मदध्ययनव मणि नियुक्तं मम पुस्तकं मम हस्ते संनिहितं नाभविष्यत्तहि एतस्य सुपूर्णस्य ग्रन्थ प्रथनशोधनकर्मासंभाव्यमभविष्यत् । परमीशकृपया सर्वान्प्रत्यूहान्सुदूरं प्रक्षिप्यैष प्र सुपूर्णतां नीतः।
For Private and Personal Use Only