________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःस्यात्काश्मयः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च । श्रीपर्णी स्यात्सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ १४६ ॥ कुमदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा । मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ १४७ ॥ स्थूलत्वचा मधुमती सुफलां मेदिनी महाकुमुदा। सुदृढत्वचा च कथिता विज्ञेया विंशतिनाम्नाम् ॥ १४८ ॥ ___ गुणाः-काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् । त्रिदोषविषदाहार्तज्वरतृष्णास्त्रदोषजित् ॥ १४९ ॥
(३४) पाटला ( पाटली) पाटलोक्ता तु कुम्भिका ताम्रपुष्पाऽम्बुवासिनी । स्थाली वसन्तदूती स्यादमोघा कालवृन्तिका ॥ १२० ॥
गुणाः-पाटलाऽपि रसे तिक्ता गुरूष्णा पवनासजित् । पित्तहिकावमीशोफकफारोचकनाशनी ॥ १२१॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:पाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका । वसन्तदूती चामोघा ताली च विटवल्लभा ॥ १५० ॥ स्थिरगन्धाऽम्बुवासा च कालवृन्तीन्दुभूया।
गुणाः—पाटली तु रसे तिक्ता कटूष्णा कफवातजित् । शोफामानवमिवासशमनी संनिपातनुत् ॥ १५१ ॥
काष्ठपाटला । ( पाटलाविशेषः ) ॥ २३ ॥ द्वितीया पाटला श्वेता निर्दिष्टा काष्ठपाटला । सा चैव श्वेतकुम्भीका कुबेराक्षी फलेरुहा ॥ १२२ ॥ गुणाः-*पाटलाया गुणस्तद्वत्किचिन्मारुतकृद्भवेत् ।।
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुबेराक्षी सिताहा काष्ठपाटला ॥ १५२ ॥ पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ।
गुणाः—सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् । वमिहिक्काकफनी च श्रमशोषापहारिका ॥ १५३ ॥
* क. ख. ङ. च. पुस्तकेऽयं श्लोको दृश्यते--
'पाटलायुगुलं हृद्यं सुगन्धं कफवातजित् । पाटलाया गुणस्तद्वकिंचिन्मारुतकोपजित्' ॥ १ ज. स्वयम । २ ज. ला सोमें।
For Private and Personal Use Only