________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःक्षुद्राग्निमन्थः । ( अग्निमन्थविशेषः ) ॥ २२ ।। क्षुद्राग्निमन्थस्तपनो विजया गणकारिका । अरणिर्लघुमन्थश्च तेजोवृक्षस्तनुत्वचा ॥ १३८॥
गुणाः-अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु । तत्प्रयोगानुसारेण योजये तस्वमनीषया ॥ १३९ ॥
(३२) स्योनाकः। स्योनाकः शुकनासश्च कटुङ्गोऽथ कटंभरः । मयूरजयोऽरेलुकः प्रियजीवः कुटंनटः ॥ ११४ ॥ स प्रोक्तः पृथुशिम्बश्च टिण्टुको दीर्घटन्तकः । भल्लकः शिल्लको फल्गुवृन्ताको जम्बुको मतः ॥ ११५ ॥
गुणाः-टिण्टुकः शिशिरस्तिक्तो बस्तिरोगहरः परः । पित्तश्लेष्मामवातातीसारकासारुचीर्जयेत् ॥ ११६ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःस्योनाकः शुकनासश्च कट्सङ्गोऽथ कटंभरः । मयूरजङ्घोऽरलुकः प्रियजीवः कुटनटः॥ १४० ॥ स्योनाकः पृथुशिम्बोऽन्यो भल्लको दीर्घवृन्तकः । पीतवृक्षश्च टेण्ट्रको भूतसारो सुनिद्रुमः ॥ १४१ ॥ निःसारः फल्गुवृन्ताकः पूतिपत्रो वसन्तकः । मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥१४२।। वातारिः पीतकः शोणः कूटनश्च विरेचनः । भ्रमरेष्टो बहिजङ्घो नेत्रनेत्रमिताभिधः ॥१४३॥
गुणाः--स्योनाकयुगुलं तिक्तं शीतलं च त्रिदोषजित् । पित्तलेप्मातिसारनं संनिपातज्वरापहम् ॥ १४४ ॥ तथाच-टेण्ट्रफलं कटूणं च कफवातहरं लघु । दीपनं पाचनं हृद्यं रुचिकृल्लवणाम्लकम् ॥ १४५ ॥
(३४) काश्मयः।। काश्मर्या काश्मरी हीरा काश्मर्यो मधुपर्ण्यपि । श्रीपर्णी सर्वतोभद्रा गम्भारी कृष्णवृन्तका ॥ ११७॥
गुणाः--*श्रीपर्णी स्वरसे तिक्ता गुरूणा रक्तपित्तजित् । त्रिदोषश्रमदाहातिज्वरतृष्णाविषाञ्जयेत् ॥ ११८ ॥ अन्यच्च-श्रीपर्णी स्वादुतिक्ता च रक्तपित्तज्वरापहा । काश्मर्य कुसुमं वृष्यं बल्यं पित्तास्रनाशनम् ॥ ११९ ॥
* 'श्रीपर्णी स्वादुतिक्ता च रक्तपित्तज्वरापहा । काश्मर्यकुसुमं वृष्यं बल्यं पित्तास्रनाशनम्' । १ ग. रकः । २ क. ख. . च काम्भारी ।
For Private and Personal Use Only