________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८०
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
काकः ( कोकिलाविशेषः ) ॥ ७३ ॥
काकोऽथ वायसो ध्वाङ्क्षः काणोऽरिष्ट उलूकजित् । बलिभुक्किरजीवी च धूलिजङ्घो निमित्तकृत् ॥ ४६८ ।। * काकद्रोणो द्रोणकाकः स्यात्काणोऽपि च वायसः । रूक्षो भिल्लो भलुको भल्लशल्यो दुर्घोषः स्याद्भल्लकः पृष्ठदृष्टिः । द्रागश्वासौ दीर्घकेशश्विरायुर्ज्ञेयः सोऽयं दुःखरो दीर्घदर्शी || ४६८ || +भासः शिवोऽनुभासेत गृध्राकारो रजःप्रभः । जलकाकस्तु दात्यूहः स च स्यात्काल
[ सुवर्णादि:
कण्टकः ।। ४७० ॥
सर्वकाकगुणाः –— काकभासभवं मांसं चक्षुष्यं दीपनं लघु । आयुष्यं बृंहणं बल्यं क्षतदोपक्षयापहम् || ४७१ ।।
राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग:
काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्मजः । बलिभुग्वलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ ४८४ ।। कौशिकारिश्चिरायुश्च करटो मुखरः खरः । आत्मघोषो महालोलश्विरजीवी चलाचलः || ४८५ ॥ द्रोणस्तु द्रोणकाकः स्यात्काकोलोऽरण्यवायसः । वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ ४८६ ॥ ( ८७ ) उलूकः ।
उलूको नक्तचारी च दिवान्धः कौशिकस्तथा । कौशी घर्घरको भीरुः काकशत्रुर्निशाचरः || ४७२ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः
उलूकस्तामसो को दिवान्धः कौशिकः कविः । नक्तंचरो निशाटथ काकारिः क्रूरघोषकः ।। ४८७ ॥
क्षुद्रोलूकः ( उलूकविशेषः ) ॥ ७४ ॥
क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुडुलश्व सः । वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥। ४७३ ॥
गुणाः - औलकं पित्तलं भ्रान्तिकरं वातप्रकोपनम् । मसहा वायसोलकश्येनादयस्तथा । सिंहादिवगुणस्तेषां विशेषाच्छोपणे हिताः ॥ ४७४ ॥ सृष्टमूत्रविसर्पन्ना मृगाः शाखामृगादयः । गुरवः स्वादवो वृष्याश्चक्षुष्याः शोषणे हिताः ।। ४७५ ॥
For Private and Personal Use Only
* काकद्रोणः = डोमकावळा इति ख्यातः । भल: काकावळ इति ख्यातः । + भास:गिधाडीकावळा इति प्रसिद्धः । जलकाक : पाणकावळा इति ख्यातः 1
१. गीश्वाद्दीर्घ ।