________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टु सहितः ।
महामूषकः ( दीर्घतुण्डीविशेषः ॥ ६९ ॥
* अन्यो महामूषकः स्यान्मोषी विघ्नेशवाहनः । महाङ्गः सस्यमारी च फलो भित्तिपातनः ।। ४३३ ।।
राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग:
* । * ।। ४५९ ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
( ७५ ) बिडालः ।
*विडालो मूषकद्वेषी वृषदंशो विडालकः । *शालाटकच मार्जारो मायावी दीप्तलोचनः || ४३४ ॥
अन्यच्च – विडालो विषदन्तश्च मार्जारोऽथ विडालकः । ओतुर्मूषकशत्रुश्च मायावी दीप्तलोचनः ॥ ४३५ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
२७५
* । * ।। ४६० ।
लोमशबिडालः (गन्धमार्जारः ) ( विडालविशेषः ) ॥ ७० ॥ लोमशोऽन्यो विडालच पूतिकः पूतिकेसरः । सुगन्धिमूत्रपतनो गन्धमाजरसंज्ञकः ।। ४३६ ।। तृतीयः पिङ्गलश्चान्य उग्र उग्रविडालकः । सुगन्धसूत्रपणः कस्तूरीति निगद्यते ॥ ४३७ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः
अन्यो लोमशमार्जारः पूतिको शालिजाहकः । सुगन्धिसूत्रपतनो गन्धमाजरकश्च सः ।। ४६१ ॥
―――――
(७६) शृगालः ।
शृगालो जम्बुकः फेरुर्गोमायुः क्रोष्टुकः शिवः । भल्लको मृगधूर्तश्च शालाकश्व फेरवः || ४३८ ॥
राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग:
शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ । शालानुकः शिवालुश्च फेरण्डो व्याघ्रसेवकः || ४६२ ॥
सिंहादिगुहाशयानां गुणाः -- सिंहव्याघ्रर्क्षमार्जारशृगालाद्या गुहाशयाः । गुरूष्णाः स्युरतिस्निग्धा वल्या मारुतनाशनाः ।। ४३९ ।। विशेषेण गुरुस्तेषां
१. भूपाला । ८. भूमिलो । ८. भूपलो । २ ज. मारजातकः ।
For Private and Personal Use Only