________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःयोपिन्महेला महिला विलासिनी नितम्बिनी साऽपि च मत्तकाशिनी । जनी सुनेत्रा प्रमदा च सुन्दरी स्यादश्चितभ्रूललिता विलासिनी ॥ ३६७ ॥ मानिनी च वरारोहा नताङ्गी च नतोदरा । प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥ ३६८॥
(४४) शरीरम् ( वपुः) शरीरं शकटं देहं पुरं कायं कलेवरम् । वपुश्चावयवस्थानमात्मा दशरथस्तथा ॥ ३५६ ॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:तनुस्तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि । गात्रं च मूर्तिर्धनकायदेहावष्टाङ्गपीडानि च विग्रहश्च ॥ ३६९ ॥
(४५) वाचा। वाचा सरस्वती वाणी वाग्गौरी (?) वचनी तथा । गिरा च भारती चैव ब्राह्मी भाषा च गी रसा ॥ ३५७ ॥
(४६) वायुः। वायुः प्रभञ्जनः कर्ता मारुतः श्वसनोऽनिलः । समीरणो मातरिश्वा पवनश्च सदागतिः ॥३५८॥ प्राणोऽपान उदानश्च समानो व्यान एव च। ककरो देवदत्तश्च नागः कूर्मो धनंजयः ॥ ३५९ ॥ गुणाः-तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः।
राजनिघण्टौ सत्त्वादिरेकविंशो वर्गःवातो गन्धवहो वायुः पवमानो महाबलः । स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥३७०॥ श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः । समीरणो जगत्पाणः समीरश्च सदागतिः ॥ ३७१ ॥ जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः । प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥३७२॥ अन्येऽपि वायवो देहे नाडीचक्रप्रवाहकाः । मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥ ८॥
(४७) पित्तम् । पित्तं तेजोमयं तिक्तं शिखी वैश्वानरोऽनलः । ज्वरपक्ता तृष्णाकर्ता शोषं चैव प्रकीर्तितम् ॥ ३६०॥
गुणाः-पित्तं सस्नेहतीक्ष्णोष्णं लघु विसं सरं द्रवम् ॥ ३६१ ॥ आग्नेयमुष्णं विषदं सतीक्ष्णं सरं द्रवं विसतरं विदाहि । विनीलमम्लं कटुकं च पित्तं पक्काशयामाशयमध्यवर्ति ॥ ३६२ ॥
१ झ. 'ग्गीर्वाच।
For Private and Personal Use Only