________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ]
राजनिघण्टुसहितः ।
२०९
कपिलोहं सुवर्णकम् ।। १८ ।। आरं सैंहलकश्चैव निष्ठुरो दारुकण्टकः । *राजरीतिः स्मृता राज्ञी राजपुत्री महेश्वरी ॥ १९ ॥ ब्रह्माणी ब्रह्मरीतिश्च कपिला पिङ्गलाऽपि च ॥
पित्तलद्वयगुणाः रीतिद्वयं पाण्डुसमीरणनं रूक्षं सरं कृमिहरं लवणं विपन्नम् । वृष्यं वलीपलितनाशनमुग्रमायुर्बुद्धिं करोति सहसा च रसायनाइयम् ।। २० ।। राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:
रीतिः क्षुद्रसुवर्ण सिंहलकं पिङ्गलं च पित्तलकम् । लौहितकमारकुटं पिङ्गललोहं च पीतकं नवधा ।। १७ ।। राजरीतिः काकतुण्डी राजपुत्री महेश्वरी । ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलाऽपि च ॥
गुणाः -- रीतिकायुगुलं तिक्तं शीतलं लवणं रसे । शोधनं पाण्डुवातघ्नं कृमिप्लीहार्तिपित्तजित् ॥ १८ ॥ शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी । मोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥ १९ ॥ (६) सीसकम् ।
सीसकं नागमुरगं कृष्णोरगभुजङ्गमाः । यवनेष्टं विशिष्टं च योगीष्टं चीनपिष्टकम् ॥ २१ ॥
गुणाः - नागो हि नागसममेव बलं ददाति व्याधीन्विनाशयति चाऽऽयुरलं करोति । प्रधानधातोरपि वर्धनश्च भुजङ्गराजो हरते च मृत्युम् || २२ || राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गः
सीसकं तु जडं सीसं यवनेष्टं भुजङ्गमम् । योगीष्टं नागपुरगं कुव परि
तत्राऽऽदावनयोः शोधनं तु ताम्रवज्ज्ञेयम् ।
मारणं— निम्बूरसशिलागन्धवेष्टिता पुटिताऽष्टधा रीतिरायाति भस्मत्वं ततो योज्या यथाक्रमम् । ताम्रवन्मारणं चास्याः कृत्वा सर्वत्र योजयेत् ।
* राजरीतिः - 'सोनपितळ' इति ख्याते ।
+ सीसकभेदशुद्धि मारणानि —
सीसकभेद: दुतद्रवं महाभारं छेदे कृष्णं समुज्ज्वलम् । पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ।
अस्य शुद्धिः सुवर्णवज्ज्ञेया ।
मारणम् ————मनःशिलागन्धयुताटरूपतोयप्लुतं नागदलं विमृष्टम् । त्रिभिः पुटेः कुम्भमितैः प्रयाति भस्मत्वमेतत्प्रवदन्ति तज्ज्ञाः ॥
१ ङ. छ राजपत्नी । झ. राजपत्री । २ क ङ. °ष्टं च निपीतकम् । ३ ख चीरपिष्टकम् । ग. वीरपिष्टकः ।
२७
For Private and Personal Use Only