________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४ धन्वन्तरीयनिघण्टुः
[ आम्रादिःगुणाः-वरुणः कदुरुष्णश्च रक्तदोषहरः परः । शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ १९७ ॥
(४०) शिंशपा। शिंशपा तु महाश्यामा कृष्णसारा स्मृता गुरुः । कुशिंशपाऽन्या कपिला भस्मगी वसादनी ॥ १२१॥
गुणाः--कट्रष्णं कण्डुदोषघ्नं बस्तिरोगविनाशनम् । शिंशपायुगुलं वयं हिकाशोफो विसर्जयेत् ॥ १२२ ॥ पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःशिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका । तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ १९८ ॥
गुणाः-श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् । नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ १९९ ॥ शिंशपाऽन्या श्वेतपत्रा सिताहादिश्च शिंशपा । श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ २०० ॥ कपिला शिंशपा चान्या पीता कपिलशिंशपा । सारिणी कपिलादी च भस्मगर्भा कुशिंशपा ॥ २०१॥
गुणाः--कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा । वातपित्तज्वरनी च च्छर्दिहिकाविनाशिनी ॥ २०२ ॥
साधारणशिंशपात्रयगुणाः-शिंशपात्रितयं वर्ण्य हिमशोफविसर्पजित् । पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ २०३ ॥
(४१) सर्जकः ( सर्जः) सर्जको वस्तकर्णश्च कपायश्चिरपत्रकः । सस्यसंवरकः शूरः सर्नोऽन्यः शाल उच्यते ॥ १२३ ॥
गुणाः-कुष्ठकण्डूकृमिश्लेप्मवातपित्तरुजा जयेत् । स युग्मं कषायं स्याद्वये रूक्षं कफापहम् ॥ १२४ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःसर्जः सर्जरसः शालः कालकूटो रजोद्भवः । वल्लीवृक्षश्चीरपर्णो रालः कार्योऽजकर्णकः ॥ २०४ ॥ बस्तकर्णः कषायी च ललनो गन्धवृक्षकः । वंशश्च शालनिर्यासो दिव्यसारः सुरेष्टकः ॥ २०५ ॥ शूरोऽग्निवल्लभश्चैव यक्षधूपः सुसिद्धकः।
१ ग. र्भा च सा । २ ख. 'षायो वीर। ३ ट. 'पः ससि ।
For Private and Personal Use Only