SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० धन्वन्तरीयनिघण्टुः- [करवीरादिःराजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः* । शिशुभियः सितादिः स्यादरुणो रसजः स्मृतः ॥ १९८ ॥ गुणाः-पित्तनः पवनार्तिजिद्रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिपदः। विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तक: स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥ १९९ ॥ (४२) काशः (कासः) काशः काण्डेक्षुरुद्दिष्टः काकेक्षुर्वायसेक्षुकः । इक्ष्वारिकाकाण्डश्च स चैवेक्षुरकः स्मृतः॥ १३० ॥ श्वेतचामरपुष्पश्च तथेक्षुकुसुमश्च सः। गुणाः-काशः स्वादू रसे तिक्तो विपाके वीर्यतो हिमः । तर्पणो बलकदृष्यः श्रमशोषभयापहः । काशद्वयं च पित्तास्रकृच्छ्रजिन्मधुरं हिमम्॥ १३१ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:काशः काण्डेझुरिक्ष्वारिः काकेक्षुर्वायसेक्षुकः । इक्षुरश्चेक्षुकाण्डश्च शारदः सितपुष्पकः ॥ २०० ॥ नादेयो दर्भपत्रश्च लेखनी काण्डकाण्डकः । कण्ठालङ्कारकश्चैव ज्ञेयः पञ्चदशाहयः ॥ २०१॥ गुणाः-काशश्च शिशिरो गौल्यो रुचिकृत्पित्तदाहनुत् । तर्पणो वलकुदृष्य आमशोषक्षयापहः ।। २०२॥ अन्योऽशिरी मिशिगुण्डा अश्वालो नीरजः शरः। गुणाः-मिशिर्मधुरशीतः स्यात्पित्तदाहक्षयापहः ॥ २०३ ॥ (४३) मुनः (मुञ्जकः) मुञ्जः क्षुरः स्थूलदर्भो बाणाह्वो ब्रह्ममेखलः। गुणाः—मुञ्जोऽनुष्णो विसर्पास्रमूत्रबस्त्यक्षिरोगनुत् । वाणाह्वो मधुरः शीतः पित्तदाहतृषापहः ॥ १३२ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:मुञ्जो मौञ्जीतृणाख्यः स्याब्रह्मण्यस्तेजनाह्वयः । वानीरजो मुञ्जनकः शारी दर्भाह्वयश्च सः॥२०४॥ दूरमूलो दृढतृणां दृढमूलो बहुप्रजः। रञ्जनः शत्रुभङ्गश्च स्याच्चतुर्दशसंज्ञकः ॥ २०५॥ गुणाः-मुञ्जस्तु मधुरः शीतः कफपित्तजदोषजित् । ग्रहरक्षामु दीक्षासु वनो भूतनाशनः ॥ २०६॥ १ क. 'यदो हि । २ झ. ढ. दर्पणो । ३ ढ. 'न्योऽशीरी । ४ झ. ट. अश्वालो। ५ क. ग. 'गजित्। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy