________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३
४ चतुर्थो वर्गः] राजनिघण्टुसहितः।
गुणाः-गौरसर्षपकोऽत्युष्णो रक्षोघ्नः कफवातजित् । कृम्यामकण्डुकुष्ठन्नः श्रुतिशीर्षानिलार्तिजित् ॥४२॥ तद्वद्रक्तस्तु सिद्धार्थस्तिक्तः स्निग्धोष्णकः कटुः। ___ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:--
तीक्ष्णकश्च दुराधर्षो रक्षोनः कुष्ठनाशनः । सिद्धप्रयोजनः सिद्धसाधनः सितसर्पपः ॥ ६८॥
गुणाः-सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः । त्वग्दोपशमनो रुच्यो विषभूतग्रणापहः ॥ ६९ ॥
राजक्षवकः। ( सर्षपविशेषः ) ॥ १२ ॥ राजक्षवक इत्युक्ता राजिका कृष्णसर्पपा । क्षुधाभिजनकश्चैव सा चोक्ता राजसर्षपः ॥ ४३ ॥
गुणाः-राजिका कटुतिक्तोष्णा कृमिश्लेष्महरा परा । रुचिष्या पित्तला मोक्ता दृष्टिबस्तिप्रदूषणी ॥४४॥ अन्यच्च-राजिका तु कफवातहारिणी रोचिकाऽनिजननी च कथ्यते । कण्ठरुकृमिविनाशिनी तथा उष्णवीर्यमुपहन्ति शूलिनाम् ॥४५॥
विशेषगुणाः-कृमिः स्निग्धोष्णकुष्ठन्नः कटुको रसपाकतंः । तद्गुणा राजिका रुच्या तद्गुणोऽन्योऽपि सर्षपः॥ ४६ ॥
राजनिघण्टौ शाल्यादिः षोडशो वर्गःराजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी । सा कृष्णसर्पपाख्या विज्ञेया राजसर्पपाख्या च ॥ ७० ॥
गुणाः-राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् । पित्तदाहप्रदो गुल्मकण्डूकुष्ठवणापहः ॥ ७१॥
(१२) भूतृणः (भूतिः) भूतृणो रोहिपो भूति तिकोऽथ कुटुम्बकः । मालातृणः प्रलम्बश्च च्छत्रोऽतिच्छत्रकस्तथा ॥ ४७ ॥ __ गुणाः-भूतृणो लघुरुष्णश्च रूक्षः श्लेष्मामयापहः । अस्य प्रयोगः सहसा हन्ति जन्तून्समुद्धतान् ॥४८॥ अन्यच्च-भूतृणः कटुतिक्तश्च वातसंताननाशनः । हन्ति भूतग्रहावेशान्विषदोषांश्च दारुणान् ॥ ४९ ॥
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःभूतृणो रोहिषो भूतिभूतिकोऽथ कुटुम्बकः । मालातृणः सुयाली च
For Private and Personal Use Only