________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८ धन्वन्तरीयनिघण्टुः
[ करवीरादि:(७) बुकः। ( बकः) बुको वसुक इत्युक्तः शिवाह्वः शिवशेखरः। महापाशुपतश्चैव सुव्रतः शिवमल्लिका ॥ १९॥
गुणाः-वसुकः कटुतिक्तोष्णः श्लेष्मोद्भूतंकफापहः । व्रणान्समस्तान्हरति प्रलेपादिप्रयोजितः ॥ २० ॥ __ राजनिघण्टौ करवीरादिर्दशमो वर्गः
बकः पाशुपतः शैवः शिवपिण्डश्च सुव्रतः । वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः ॥ ३३ ॥ शिवमल्ली शिवाहलादः शाम्भवो रविसंमितः। गुणाः-पित्तदाहकफश्वासश्रमहारी च दीपनः ॥ ३४ ॥
(८) काकमाची। काकमाची ध्वाङ्क्षमाची काकाहा चैव वायसी । कवी कटुफला चैव रसायनवरा स्मृता ॥ २१॥
गुणाः-काकमाची त्रिदोषघ्नी रसा स्वर्या सतिक्तका । हन्ति दोपत्रयं कुष्ठं वृष्या सोष्णा रसायनी ॥ २२॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःकाकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी । सर्वतिक्ता बहुफला कदफला च रसायनी ॥ ३५ ॥ गुच्छफला काकमाता स्वादुपाका च सुन्दरी । वरा विद्रावणी चैव मत्स्याक्षी कुष्ठनाशनी ॥ ३६ ॥ तिक्तिका बहुतिक्ता च नाम्नामष्टादश स्मृताः।
गुणाः--काकमाची कटुस्तिक्ता रसोष्णा कफनाशनी । शूलार्श शोफदोपन्नी कुष्ठकण्डूतिहारिणी ॥ ३७ ।।
काकजङ्घा ( काकमाचीविशेषः)॥४॥ काकजङ्घा ध्वाङ्क्षजङ्घा काकपादा तु लोमशा । पारावतपदी दासी नदीकान्ता प्रचीबला ॥ २३ ॥
गुणाः-काकजया च तिक्तोष्णा रक्तपित्तज्वरापहा । कृमिदोषहरी वा विपदोषहरा मता ॥ २४ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:----
१. छ. तव्यथाप । २ झ, ढ. चन्द्राविणी ।
For Private and Personal Use Only