________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः ] राजनिघण्टुसहितः।
१०७ गुणाः-तगरं शीतलं तिक्तं दृष्टिदोषविनाशनम् । विषार्तिशमनं पथ्यं भूतोन्मादभयापहम् ॥ १०४॥
(२१) परिपेल्लम् (परिप्लवम् ) परिपेल्लं प्लवं वन्यं गोपुटं स्यात्कुटन्नटम् । सितपुष्पं दासपुरं गोन जीर्णपुष्पकम् ॥ ५५ ॥ __ गुणाः-परिप्लवं सुगन्धि स्यात्मस्वेदमलकण्डुजित् । जयेद्वातकफौ चापि मेध्यं कान्तिप्रदं भवेत् ॥ ५६ ॥ अन्यच्च-परिप्लवं वातकफी जयेन्मेध्यं च कान्तिदम् । कफवृष्णाहरं प्रोक्तमस्रपित्तविनाशनम् ॥ ५७॥
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:परिपेल्लं प्लवं धान्यं गोपुटं स्यात्कुटन्नटम् । सितपुष्पं दासपुरं गोनदै जीर्णबुधकम् ॥ १०५ ॥
गुणाः-परिपेल्लं कटूष्णं च कफमारुतनाशनम् । व्रणदाहामशूलनं रक्तदोषहरं परम् ॥ १०६॥
(२२) नखम् । नखः कररुहः शिल्पी करजोऽथ खुरः शफः । शुक्तिः शङ्खश्चलः कोशी हनुगहनुः सहः ॥ ५८॥
गुणाः-नखं कदुकमुष्णं च विषं हन्ति प्रयोजितम् । कुष्ठानि सादयत्येव कर्फ खण्डयति क्षणात् ॥ ५९॥
राजनिघण्टौ चन्दनादिदशो वर्ग:-- नखः कररुहः शिल्पी शुक्तिशङ्खः खुरः शफः । बलः कोशी च करजो हनुनोगहनुस्तथा ॥ १०७ ॥ पाणिजो बदरीपत्रो धूप्यः पण्यविलासिनी। संधिनालः पाणिरुहः स्यादष्टादशसंज्ञकः ॥ १०८॥ ___ गुणाः-नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः । कुष्ठकण्डूवणनश्च भूतविद्रावणः परः ॥ १०९॥
(२३) व्याघनखम् । नखमन्यद्व्याघ्रनखं पुटं व्याघ्रायुधं मतम् । अस्त्रं व्याघ्रतलं पादं कूटस्थं वैज्रकारकम् ॥ ६०॥ ___ गुणाः-*ग्रहभूतोपशमनं पवित्रं द्वीपिज नखम् । *व्याघ्रनखस्तु तिक्तोष्णः कषायः कफवातजित् ॥ ६१ ॥ कण्डुकुष्ठवणघ्नश्च वर्ण्यः सौगन्ध्यदः परः।
१ क. 'पुटं गो । २ झ. ष्णाकरं । ३ क. ङ, कोशी । ४ क. ख. ङ. चक्रनायकम् । '
For Private and Personal Use Only