________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३ तृतीयो वर्गः] राजनिघण्टुसहितः।
अथ चन्दनादिस्तृतीयो वर्गः।
(१) चन्दनम् । चन्दनं गन्धसारं च महार्ह श्वेतचन्दनम् । भद्रश्रीस्तु मलयजं गोशीर्ष तिलपर्णकम् ॥ १॥
गुणाः-*श्रीखण्डं शीतलं स्वादु तिक्तं पित्तविनाशनम् । रक्तप्रसादनं वृष्यमन्तर्दाहापहारकम् ॥ २॥ पित्तास्रविषतृड्दाहकृमिघ्नं गुरु रूक्षणम् । सर्व सतिक्तमधुरं चन्दनं शिशिरं परम् ॥ ३॥
राजनिघण्टौ चन्दनादिादशो वर्गःश्रीखण्डं चन्दनं प्रोक्तं महार्ह श्वेतचन्दनम् । गोशीर्ष तिलपर्ण च मङ्गल मलयोद्भवम् ॥ १॥ गन्धराजं सुगन्धं च सर्पावासं च शीतलम् ॥ २ ॥ गन्धाढ्यं गन्धसारं च भद्रश्री गिवल्लभम् । बावनं मलयेजं च शीतगन्धोऽङ्कभूवयम् ॥३॥
गुणाः--श्रीखण्डं कदुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृपासंतापशान्तिप्रदम् । वृष्यं वक्त्ररुजापहं प्रतनुते कान्ति तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ ४ ॥ श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे । स्वादस्तिक्तकटुः सुगन्धबहलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमम् ॥ ५॥
अन्यच्च-चन्दनं द्विविधं प्रोक्तं बेसुकडिसंज्ञकम् । वेदं तु साईविच्छेदं स्वयं शुष्कं तु सुकडि ॥६॥ मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः। तज्जातं चन्दनं यत्तु बेट्टवाच्यं कचिन्मते ॥ ७ ॥
गुणाः-बेट्टचन्दनमतीव शीतलं दाहपित्तशमनं ज्वरापहम् । छर्दिमोहतषिकुष्ठतमिरात्कासरक्तशमनं च तिक्तकम् ॥८॥ सुक्कडिचन्दनं तिक्तं कृच्छपित्तास्रदाहनुत् । शैत्यसुगन्धदं चाऽऽर्द्र शुष्कं लेपे तदन्यथा ॥ ९ ॥
* ग्रन्थान्तरे
'चन्दनं सुशिशिरं च विषघ्नं रक्तपित्तशमनं च सुगन्धि । तिक्तकं नयनयोहितमन्यं शीतलं मृदु गुरु व्रणशोधि ' ॥
१ ख. 'द्रप्रियं म । २ ख. ग. घ. र्ष तैल ।
For Private and Personal Use Only