________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः-[ शतपुप्पादिको २द्वितीयो वर्गः] .. गुणाः- हिमजा शर्करा गोल्या सोष्णा तिक्ताऽतिपिच्छिला । वातघ्नी सारिका रुच्या दाहपित्तास्त्रदायिनी ॥ १६४ ॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्ग:
तवराजशर्करा (शर्कराविशेषः) ॥२५॥ यवासशर्करा त्वन्या सुधा मोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥ १६५ ॥
गुणाः-तवराजोऽतिमधुरः पित्तश्रमतृषापहः। वृष्यो विदाहमूर्छातिभ्रान्तिशान्तिकरः सरः॥ १६६ ॥ ___ साधारणशर्करागुणाः-स्निग्धा पुण्डूकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा । वृष्या तृप्तिवलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनितारक्तेक्षुजा पित्तजित्॥१६७॥
राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः
___ माध्वी सिता ( शर्कराविशेषः ) ॥२६॥ माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैपा क्षौद्रजा क्षौद्रशर्करा ॥ १६८॥
गुणाः—यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा । विशेषादलवृष्यं च तर्पणं क्षीणदेहिनाम् ॥ १६९ ॥
॥१॥'नवसारः। करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः । क्षारोऽसौ नवसारः स्याचूलिकालवणाभिधः॥१॥ इष्टिकादहने जातं पाण्डुरं लवणं हि तत् । तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ॥२॥
गुणाः-चनकक्षारमत्युग्रं तीक्ष्णं क्षारं च लोचनम् । गुल्मोदरं च विष्टम्भं शूलप्रशमनं सरम् ॥३॥ ग्रन्थान्तरे-रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् । गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ॥४॥ बिडाख्यं श्वित्रदोषघ्नं चूलिकालवणं मतम्।
शतपुष्पादिको वर्गो द्वितीयः परिकीर्तितः ।
कायाग्निदीपनो बल्यो वक्त्रसौगन्ध्यतीक्ष्णकृत् ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ
__ शतपुष्पादिद्वितीयो वर्गः ॥२॥ नवसारस्य शुद्धिः-- "नवसारो भवेच्छुद्धश्चूर्णतोये विपाचितः ।
___ दोलायन्त्रेण यत्नेन भिषम्भिर्योगसिद्धये" ॥ * नवप्तारस्यापि वर्गान्तेऽत्र संग्रहणं त्रिक्षारसंबद्धत्वादेव ।
1
*
For Private and Personal Use Only