SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandie www.kobatirth.org CHORSHASTROCESS सन गत्वा पचत्येषा, यावद् भोज्यं सुभङ्गिकम् । विपणेस्तावदायातः, कृपणोऽवोचत पियाम् ॥ ११६ ॥ अद्यार्द्धपलिकातैल,-मानीतं मयकाऽऽपणात् । यथा स्याद् बहु सर्वेषां, वल्ला राद्धाः किमु प्रिये ! ॥ ११७ ॥ तयोचे प्रिय ! सर्वेषां, निमित्तं शालिमुख्यकम् । अद्य राद्धमतो भाव्यं, भवता(तो)ऽप्येतदेव हि ॥ ११८ ॥ एतत्कान्तावचः श्रुत्वा, श्रुतितप्तत्रपूपमम् । क्रुद्धोऽप्यन्तरदोऽप्याशु, देहीत्यथ स ऊचिवान् ॥ ११९ ॥ ततः कान्ताऽवदत्कान्त !, क्षणमेकं प्रतीक्ष्यताम् । घृतपूरयुगं याव-दिदमुत्तारयाम्यहम् ॥ १२० ॥ वाचेति विद्युतेवैष, हतो दष्टोऽहिनेव वा । मृञ्छितस्तत्क्षणादेव, पपात पृथिवीतले ।। १२१ ॥ कथश्चिल्लब्धसञोऽसौ, वह्निज्वालास्ववस्थितः । सर्वदेहोल्लसद्दाहः, कोपादित्थमभाषत ॥ १२२ ॥ डाकिनी भवती नूनं, छलनैकपरायणा । द्रविणं जीवितं मे यत् , सकलं नयति क्षयम् ॥ १२३ ॥ चामुण्डे ! दुष्टतुण्डे ! त्व,-मानीता निजपाणिना । स्वसअखननीदोष, ददे कस्य ततोऽधुना ।। १२४ ॥ त्वदीयं चेष्टितं क्रूर, सदा दुःखनिवन्धनम् । विलोक्य राक्षसीं भद्रां, त्वत्तो मन्येऽहमन्वहम् ॥ १२५ ॥ SHRA%AR १. श्रुति० (तेः)त्रपू० त्रपुणा उपमा उपमानं यस्य तत् । २. परं स कृपणः ऊचिवान् , की० कृपणः ? अन्तः हृदि क्रुद्धः, कर्मआशु-शीघ्रं ( अदः इदम् ) शालिदाल्यादिकं देहि मे इत्यूचिवान् , इत्यर्थः । ३. भवती त्वं, की० डाकिनी। For Private and Personal Use Only
SR No.020586
Book TitlePunyasara Kathanakam
Original Sutra AuthorN/A
AuthorViveksamudra Gani
PublisherJindattsuri Gyanbhandar
Publication Year1945
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy