________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम्।
बोधितमलोपे मति सर्वातिमांकमध्ये उर्वरितो यो कस्तमित्यर्थः, सर्वातिमांकबोधितसंख्यामध्योर्वरितसंख्याबोधकमंकमिति यावत् । लेक्लिक - वप्रसंख्याः [?] परिधायेति यावत्, पाण-पानयव जानौहि इति यावत्, तहि पर - तदुपरि तेनेति यावत् मात्राणामिति शेषः, उद्दिट्टा - उद्दिष्टम्, अनिर्धारितप्रथमत्वद्वितीयत्वादिधर्म भेदे प्रथमवद्वितीयत्वादिधर्मनिर्धारणं, धुप-ध्रुवं निश्चितं, जाणहु - जानौहि। अत्र गुरुशिर इति शिरःपदोपादानात् गुरोरुपर्यधश्चांको देय इति सूच्यते, अन्यथा वर्णद्दिष्टे लघूपरौतिवदनापि गुरोरुपरि इत्येव ब्रूयात् । लघोस्तु उपयैवेति नियमो गुरूपदिष्टोऽनुसंधेयः । अयमर्थः - अनिर्धारितप्रथमवद्वितीयत्वादिधर्मभेदखरूपं विन्यस्य प्रथमाक्षरोपरि एकत्वसंख्याबोधकोऽकः स्थाप्यः, द्वितीयाक्षरोपरि च पूर्वीकदयाभावात् पूर्वस्यैकांकद्वैगुण्यकल्पनानिःपनो द्वितीयोऽकः स्थाप्यः, हतीयस्थाने च तत्पूर्वद्वितीयकत्यंकयैक्यक्रियानिःपन्नः हतीयोऽकः स्थाप्यश्चतुर्थस्थाने च तत्पूर्ववतौयद्वितीयेत्यंकद्वयैक्यक्रियानिःपत्रः पंचमोऽकः स्थाप्यः, पंचमस्थाने च तत्पूर्वपंचमहतीयेत्यंकयैक्यक्रियानिःपन्नोऽष्टमोऽकः स्थाप्यः, षष्ठस्थाने च तत्पूर्वाष्टमपंचमेत्यंकदयैक्यक्रियानिःपन्नस्त्रयोदशोऽकः स्थाप्यः। एवं षट्स स्थानेषु षड़काः यथाप्रस्तारसंख्यं षट्कलगोद्दिष्टे स्थाप्याः । एवं पंचकलादावपि यथाप्रस्तारसंख्यमंकाः स्थायाः ।
एवं च त्रिगुरुः षट्कलस्य कतमो भेद इति पृष्टे, १५ १६ | गुरुत्रयं लिखित्वा तत्र एकद्वित्रिपंचाष्टत्रयोदशेति
|१३८ SSS
For Private and Personal Use Only