________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
ददाति, मित्रादुदासौनः कार्यबन्ध नहि पुनः [पुनः करोति, मित्राद्भवति यदि शत्रुः गोचबान्धवान् पौड़यति । अपरं भृत्यामित्रेण सर्वं कायें भवति, भृत्याप्रत्येऽप्यायतिश्चलति, मृत्यादुदामौनः [स] धनं नाशयति, भृत्याईरिणाक्रन्दः फलति । (C). ___३७ । अत्र मनुष्यकवित्वे तदुक्तं फलं, पर्वतादिवर्णने कविगतं, देवतावर्णने न कापि। तदुक्तमभियुक्तः,-वर्यते मनुजो यत्र फलं तहतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलं ॥ देवता वर्यते यत्र काव्ये क्वापि कवीश्वरैः। मित्राऽमित्रविचारो वा न तत्र फलकल्पनेति ॥ उपर्युक्तगणगुणनपवदन् द्विगणविचारमाह, मित्त मित्तेति । मित्रात् मित्रं यदि पतति तदेति शेषः सर्वत्र यथायथं योजनौयः, ऋद्धिं बुद्धिम् अपरं मंगलं ददाति, मित्राइत्यो यदि पतति तदा युद्धे स्कन्धस्थय निर्भयं जयं करोति, मित्रादुदासीनो यदि पतति तदा कार्यबंध कार्यप्रतिबंधं खलु पुनः पुनः करोति, मित्रात् यदि शत्रुः भवति तदा गोत्रबान्धवान् पौड़यति, अपरं भृत्यात् मित्रं यदि पतति तदा सर्वाणि कार्याणि भवंति, भृत्यात् मृत्यो यदि पतति तदा प्रायतिरुत्तरकालो वर्द्धते, भृत्यात्. उदासौनो यदि पतति तदा धनं नश्यति, भृत्यात् वैरौ यदि पतति तदा हाकंदः हाहहाकारः पतति। (E).
३७ । अथ दिगणफलमाह ॥ मित्त ॥ मित्रगणामित्रगणश्चेत् ऋद्धिं बुद्धिमन्यन्मंगलं ददाति। मित्रात् मृत्यः स्थिरं काव्यं युद्धे निर्भयं जयं करोति। कब्जेति पाठे कार्य । मित्रादुदासोने कार्यस्य नास्ति बंधः पुनः चीयते। मित्राद्भवति यदि शत्रुर्मित्र
For Private and Personal Use Only