________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२
प्राकृतपैङ्गणम् ।
२०२। आईति। प्रादौ यत्र पादगणः प्रकटितो जोहलोऽते प्रियते, काहलशब्दगंधा इति मुनिगणाः कंकणमंते क्रियते । शब्दायते एका भेरौ चलति नरपतिरुच्यते शंखः सुभव्यं चामरयुगमंते यत्र प्रकटितमेतबरेंद्रच्छंदः ॥ पादो भगणः, जोहलो रगणः, मुनिः मत, एवंच मत लघवः कार्या इत्यर्थः, कंकणं] गुरुः, भेरौ लघुः क्रियते नरपतिर्जगणः, शंखो लघुः, चामरं गुरुः । (G). ___ २०२ । श्राइहि जत्थ इत्यादि । श्रादौ यत्र पादगणः प्रकव्यते योधोऽन्ते स्थाप्यते, काहलः शब्दः गंधः एवं मुनिगणः कंकणस्तत्र क्रियते। शब्दायते एका भेरौ चलितो नरपतिः फुत्कार्य शंखं सुभव्यं, चामरयुगमते पत्र प्रकटितमेतत् नरेन्द्रकाव्यं ॥ यत्र श्रादौ पादगणो भगणः प्रकव्यते, अन्ते भगणान्ते जोहलो रगण: स्थाप्यते, काहलो लघुः शब्दो लघुर्गन्धो लघुरेवंक्रमेण लघुत्र ततो मुनिगणश्चतुलघुगणस्तेन सप्त लघव इत्यर्थस्तत्र कंकणं गुरुः क्रियते । एका भेरी शब्दायते सधुः भवतीत्यर्थस्ततो नरपतिर्जगणचलति भवति शंखं फूत्कार्य वधु स्थापय, शंखं कीदृशं सुभव्यं, चामरयुगमन्ते प्रकश्य गुरुदयं स्थायं, एतबरेन्द्राख्यं काव्यं ॥ अथच यदा नरपतिश्चलति तदादौ पादगणः पदातिगणः प्रकटितोभवति, योधगणोऽन्ते स्थाप्यते, ततः कालशब्दः, कर्पूरागुरुमारादेर्गन्धः, मुनिगणा दिजा आशीर्वादपुरस्मरमये चलन्ति, कंकणाद्याभरणं क्रियते, भेरौ शब्दायते, शंखफूत्कारो जायते, नरेन्द्रस्य पार्श्व चामरदयं स्थाप्यते ॥ अत्र द्वादशसु वर्णेषु यतिः, पुनर्नवसु वर्णषु यतिरथवा त्रयोदशसु वर्णेषु यतिरष्टसु वर्णेषु
For Private and Personal Use Only