________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्।
११४ । गु २६ ल ४४ बलभद्रः, गु २७ ल ४२ राजा, मु २८ ल ४० बलितः, गु २६ ल ३८ मोचः, गु ३० ल ३६ मंथानः, गु ३१ ख ३४ बलिः, गु ३२ ल ३२ मेघः, गु ३३ ल ३० सहस्राक्षः, गु ३४ ल २८ बालः, गु ३५ ल २६ दरिद्रः, गु ३६ ल २४ सरभः, गु ३० ल २२ दंभः, गु ३८ ल २० उद्दभः, गु ३८ व १८ अहः, गु ४० ल १६ पलितांकः, गु ४१ ल १४ तुरंगः, गु ४२ ल १२ हरिणः, गु ४३ ल १० अंधः, गु ४४ ल ८ भंगः। एवं पूर्वभेदापेक्षया लघुद्दयन्यनक्रियया तत्ममानमात्राकैकगुरुवर्द्धनेन च शक्रमारभ्य मंगपर्यन्तं पंचचत्वारिंगझेदा बोध्याः ।।
अथ भकात् क्रममारभ्य चत्वारो भेदास्तृतीये विप्रदानपक्ष एव संभवन्ति। पंचममारभ्य एकचत्वारिंशत्पर्यन्तं च तीये जगणदानपचेपि विप्रपोऽपि संभवंति। द्विचत्वारिंशत्तममारभ्य पंचचत्वारिंशत्पर्यन्तं च चत्वारो भेदास्ततौये जगणमवलम्ब्यैव संभवन्ति । विप्रपक्षे पदचतुष्टये मिलिवा षोडशलघुना जगणपक्षे चाष्टगुरूणा[लघुना]मावश्यकत्वादिति बोध्यम् ॥
अथ प्राशतसूत्रेण संवादिभंगांतानां पूर्वोक्तचतुश्चत्वारिंशद्भेदानां नामान्याच, ता संभो इति । शम्भुः १, सूर्यः २, गंडः ३, स्कंधः ४, विजयः ५, दर्पः ६, तालांकः ७, समरः ८, सिंहः ८, शौर्ष १०, उत्तेजाः ११, प्रतिपक्षः १२, परिधर्मः १३, मरासः १४, मृगेंद्रः १५, दंडः १६, मर्कटः १७, [?] कालः १८, महाराष्ट्रः १९, वसंतः २०, कंठं २१, मयूरः २२, बंधः २३, धमरः २४, भिन्नमहाराष्ट्रः २५, बलभद्रः २६, राजा २७, बलितः २८, मोचः २८, मंथानः ३०,
For Private and Personal Use Only