________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| दानपूर्वकं महत्सन्मानं सर्वदा प्रयवति, तस्यानुमतिविना राजा किमपि राजकार्य न करोति. राजचरित्रं
मान्यत्वान्निखिलनागरा अपि सन्मानपूर्वकं तस्मै सन्मानं ददति. अथाने कजि मंदिरालंकृते कुणासाख्यदेशे स्वकीयातुलसमृधितिरस्कृतामरपुरी सावत्थीत्याख्योत्तमा नगरी वर्तते. तत्र राजनीतिवि. चदणः स्वदोकपराजितानेक्शत्रुर्जितशत्रुरित्याख्योऽवनीपालः प्रदेशिनरेंद्रस्य परममित्रमासीत्. अ. थैकदा प्रदेशिपः स्वकीयं परमसौहृदं चित्रसारथिमाहूय तस्या नय॑मणिमुक्तादिगुंफितमेकं हार द त्वा प्रोवाच, भो मित्र सावत्थीनगरी गत्वा त्वयैष हारो मम परमसुहृदे जितशत्रुनृपाय कुशलोदं तलनपूर्वकं मंदाझया देयः. तदनंतरं तत्कुशलोदंतपत्रं गृहीत्वा त्वरितमेवात्र त्वया मत्समीपे समागंतव्यं. इत्यादेशं दत्वा शिवास्ते पंथानः संत्वित्याशीर्वचनपूर्वकं नृपस्तं व्यसर्जयत्. अय चित्रो. ऽपि स्वसुहृदं नृपं नमस्कृत्य हारोपहारहारिकरोऽमितानंदकझोल्लोलितहृदयो निजगेहं समाययौ. ततोऽसौ निजभृत्यमेकं कौटुंबिकमाहूय वाजियुतं स्वकीयं चतुर्घटान्निधानं रथं सगीकर्तुं समादिशत्. तदनंतरं स सुरनिकोष्णनिर्मलसलिलैः स्नानमकरोत. यतः-स्नानं नाम मनः प्रसत्तिजननं । दुःखौघविध्वंसकं । सौजाग्यायतनं मलापहरणं संवर्धनं तेजसः।। रूपोद्योतकरं शिरःसुखकर कामानि
For Private And Personal Use Only