________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
प्रदेशी- कृतसहायः साहसैकनिधिः परशुरामोऽपि वापीतः पद्मपुंजं गृहीत्वा चंडिकामर्चयामास. ततोऽसावतीचरित्रं वविस्मितनागरैः सस्पृहं विलोक्यमानः प्रशस्यमानश्च वापीतो बहिरागात्. अयैवंविधं पुण्यपरंपरास
मुद्द्वतं परशुराममाहात्म्यं विज्ञाय हृदयोदितविवेकजानुनिरस्तहारग्रहणामिलापतमिस्रो मिपालश्चिंतयति, नूनं मत्कृतान्यायसमीरेण दिगंतविस्तृता मम कीर्तिदीपिका विलयं यास्यति, पुरलोकाश्च मां लोभाभिभूतमन्यायकारिणं च विज्ञाय दुस्सहां मम निंदां करिष्यंति. इति विचिंय नृपोऽपि प्र. सन्नवदनो जनसमदं परशुरामप्रशंसां विधाय तस्मै तं महऱ्या हारं समर्पयामास. परशुरामोऽपि नृपं प्रणम्य हारं च समादाय प्रमोदभरपूर्णहृदयः सुहृदा सह निजस्थाने समागतः. अय कियदिनानं तरमश्रुश्रेणिपूर्णनेत्रेण जयदेवसुहृदा विसृष्टः परशुरामो हारसमेतो निजनगरे समागत्य निजजन कचरणारविंदयोः प्रणनाम. हारसंबंधिनिजसकलोदतनिवेदनपुरस्सरं च स हारं पित्रे समर्पयामास. विझातैतवृत्तां तैपादिनिखिललोकैरतीवप्रशस्यमानः परशुरामो निरतिचारं निजवतं पालयन् वि स्तृतस्वकीर्तिलतया च महीमंडलमंझपमाबादयन प्रांते चाराधनापूर्वकं कालं कृत्वा स्वर्ग लब्ध्वाने कनाकिनारीनिकरस्पृहणीयो वव. एवं तृतीयव्रतपालनमाहात्म्यसूचकं परशुरामनिदर्शनं निगद्य ।।
For Private And Personal Use Only