________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
प्रदेशी-|| रुरेवास्ति, ततो यमातिथित्वं स्वीकुर्वन् कः खलु तस्योपरि द्वेषधारणोत्साहं वहति ? कः खलु मम चरित्रं कोपानलज्वालावलौ पतंग व निजप्राणसंदेहम निलपति? अथैवंविधां चुपवाचमाकर्ण्य सकर्णया
जरत्या नारदपर्वतयोः सकलोऽपि वादपणोदंतो चुपतये निवेदितः. ततो गादकंठया तयोक्तं हे व त्स! अथ पर्वतजीवनं तवगधोनमेवास्ति, श्रतो मां वं पुत्रभिदां देहि? एवंविधां गुरुपत्नीवाचं निशम्य निजवतनंगजिया कंपितहृदयो वसुनरेंद्रो वजाहत व विलुप्तचैतन्यो जानः. कियत्समयानंतरं लब्धचैतन्योऽसौ जगाद. हे मातगुरुवचनविलोपेन कूटसाक्ष्यप्रदानेन च प्राणिनां निःशरणं नरकांधकूपपतनमेव निर्दिष्टं. किंच वसुवसुधाधीशः सर्वदा सत्यवाद्यस्तीति जगति विस्तृतं निर्मलं मम य. शोवितानमसत्यप्रलापानलज्वालया जस्मीतं नवेत्. थासमुद्रांतमंबरैकोत्तरीयांवरालंकृतदेहा, नानाविधसुगंधोपेतानेककुसुममकरंदसुरजीतनुतलत्रमणशीला परमप्रिया मम कीर्तिमे हेलापि पस हमुखीव वितथवचोगधगंधिलांगं मां त्यक्त्वा स्वयमपि विनाशं प्राप्नुयात. श्रतो हे मातर्ममोपरि कृपां विधाय मा मामसत्यप्रलापांजनमलिनं कुरु? एविधं नृपोक्तं निशम्य तया विदग्घया जरत्या स्वमनसि विचारितं, नायं नृपो विना युक्तिं मदीयोक्तं करिष्यति, इति विचिंय तयोक्तं हे वत्स! !!
For Private And Personal Use Only