________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandiri
प्रदेशी-| तं पिष्टमयं कुर्कुटं गृहीत्वैकांतगहनवननिकुंजे निर्जनस्थाने गत्वा विचारयामास, अहो ! करुणारमचरित्रं
सागरोऽप्यस्मद्गुरुः पिष्टमयस्याप्यस्य कुर्कुटस्य वधार्थ कयमादेशं दधात ? अहो ! झातं खयु मया, गुरुणा हि तथोक्तमस्ति, यथा चैनं कोऽपि न पश्येत्तथास्यैकांते वधः कर्तव्यः, अथैनं पिष्टमयं कु. कुंटमादौ त्वमेव पश्यामि, परितः समारूढास्तवोऽपि पश्यंति, तर्वादिषु स्थिता विहगादिजंतवोऽपि पश्यंति, तथैव निजनिर्मलकेवलावलोकविलोकितलोकालोकसचराचरसकलस्वरूपाः केवलिनस्तु स. वत्रापि विलोकयंति. अतो निश्चीयते खलु याकृपा गुरुणास्य पिष्टमयस्यापि कुर्कुटस्य वधार्थमादेशो दत्त एव नास्ति, किंचाहमपि बुध्या निश्चिनोमि यदेनं पिष्टमयं कुर्कुटमप्यपराधं विना कयं दन्मि? इति विचिंत्य नारदस्तु तमहत्वैव ततो गहनवनादिनिवृत्त्य निजगुरोस्तस्य दीरकदंवोपाध्यायस्य स. मीपे समागत्य तं पिष्टमयं कुर्कुटं तथैव नतिपरः समर्पयामास. तदा पूर्वमेव गुरुसमीपमागतौ वसुपर्वतौ तु तिरस्कृतगुरुनिर्देशस्य नारदस्य हास्यं चक्रतुः. अथ दीरसागरगनीरः दीरकदंबोपाध्यायो विनयोपेतं निजविनेयं नारदं करुणामृताऽचित्ततया विदशालयगा.मिनमवगम्य प्रमोदपुलकितांग स्तमालिंग्य प्रशशंस. शेषौ दो वसुपर्वतको तु निष्करुणहृदयौ पठितमुखौ च विझाय मनस्यतीव.
For Private And Personal Use Only