________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( पारमा० ) ' एवं ' उक्तप्रकारेण 'पञ्चविकल्प' पञ्चभेदं ज्ञानावरणं कर्म 'समासतः' संक्षेपतो 'भणितं' प्रतिपादितम् । द्वितीयं दर्शनावरणं 'नवभेदं' नवप्रकारं भण्यते, शृणुत । इति गाथार्थः ॥ १८ ॥ संप्रति दर्शनावरणस्य पूर्वोद्दिष्टं प्रतीहारसाम्यमाह -
दंसणसीले जीवे, दंसणघायं करेइ जं कम्मं । तं पडिहारसमाणं, दंसणवरणं भवे बीयं ॥ १९ ॥ व्याख्या- 'दर्शनशीले' दर्शनख भावे 'जीवे' प्राणिनि 'दर्शनघातं ' दर्शन हननं 'करोति' विदधाति 'यत्' कर्म तत् 'प्रतीहारसमानं' प्रतीहारतुल्यं 'दर्शनावरणं' दर्शनच्छादनं 'भवति' जायते जीवस्य । इति गाथार्थः ॥ १९ ॥
ष्टान्तमाह
. (पारमा० ) दर्शने शीलं स्वभावो यस्य स तथा 'दर्शनशील' इति, षष्ठीसप्तम्योरर्थं प्रत्यभेदाद्दर्शनशीलस्य जीवस्येत्यर्थः । एवमन्यत्रापि भावनीयम् । दर्शनघातं करोति यत्कर्म तत्प्रतीहारसमानं दर्शनावरणं भवेद्वितीयम् । इति गाथार्थः ॥ १९ ॥ प्रतीहारसाम्यं च तद्धर्मावगमे सुज्ञानम्, अतस्तत्स्वरूपं दृष्टान्तेनाह
जह रण्णो पडिहारो, अणभिप्पेयस्स सो उ लोयस्स । रण्णो तहि दरिसावं, न देइ दहुंपि कामस्स ॥२०॥ व्याख्या—यथा ‘राज्ञः' भूपतेः 'प्रतीहारः' राजदौवारिकः 'अनभिप्रेतस्य' अनभीष्टस्य 'स तु' स एव १ " दर्शनशीलो दर्शनस्वभावो जीवः प्राणी" इत्यपि पाठः । २ "प्रतीहारो दौवारिकस्तस्य समानं दर्शनावरणं, द्वितीयं भवति" रूपोऽपि पाठो दृश्यते । ३ " अमुमेवार्थ भावयति — " इत्यपि ॥
For Private And Personal Use Only