________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARE
रिंशतोऽपनीयन्ते, ततः शेषा एकोनचत्वारिंशद्वन्धहेतवो भवन्ति । अत्राह, ननु देशविरतनसासंयमात्संकल्पजादेव निवृत्तो न त्वारम्भजादेः, तत्कथं सर्वोऽप्येषोऽपनीयते सत्यम्, किन्तु, गृहिणामशक्यपरिहारत्वेन सन्नप्यारम्भजनसासंयमोन विवक्षित इत्यदोषः। एतच्च शतकवृहचूर्णिमनुश्रित्य लिखितमिति नात्र खमनीषिका भावनीयेति । तथा प्रमत्तस्य पूर्वापनीतत्रसासंयमव्यतिरिक्तानामेकादशाविरतीनामभावात् प्रत्याख्यानावरणानां चाभावादेव आहारकद्धिकसद्भावात् पूर्वोक्तायामेकोनचत्वारिंशति पञ्चदशके:पनीते दिके च क्षिप्ते षड्रिंशत्युत्तरभेदा भवन्ति २६ । तथाऽप्रमत्तस्य त्वनन्तरोक्तायाः षड़िशतेलब्ध्यनुपजीवनेनाहारवैक्रियानारम्भकत्वाद्धक्रियमिश्राहारकमिश्रद्वयेऽपनीते शेषाश्चतुर्विशत्युत्तरभेदा भवन्ति २४ । तथाऽपूर्वकरणे त्वतिविशुद्धत्वाद्वैक्रियाहारकमपि न संभवत्येव, ततो वैक्रियाहारकदिकेऽनन्तरोक्तायाश्चतुविशतेमध्यादपनीते शेषा द्वाविंशतिर्भवति २२ । तथाऽनिवृत्तिबादरस्य तु हास्यादिषट्कस्यापूर्वकरण एव व्यवच्छिन्नत्वात् शेषाः संज्वलनाश्चत्वारः कषायाः, वेदत्रयम्, मनो ४ बचनौ ४ दारिकरूपा नव योगाः,15 एते षोडश भवन्ति १६ । यावद्यापि वेयं संज्वलनत्रयं च नापगच्छति, तदपगमने तु यथासंभवो वाच्यः। तथा सूक्ष्मसंपरायस्य वेदत्रयक्रोधादित्रिकयोरनिवृत्तिबादर एव व्यवच्छिन्नत्वाच्छेषा नव योगा: संज्वलनलोभश्चेति दश भवन्ति १० तथा त्रयाणामुपशान्तादीनां योगप्रत्यय एव बन्धः, ततश्चोपशान्त
१-"दुत्तरभेदा लभ्यन्ते" इत्यपि ।।
For Private And Personal Use Only