________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SCARSACROES
रप्यस्ति, यथोक्तमनन्तरमितिकृत्वा निवृत्तिगुणस्थानकमप्येतदुच्यते । उक्तं च-'नियट्टि अनियट्टि बायरे सुहमे” इति ॥ इदानीमनिवृत्तिबादरसंपरायगुणस्थानकमुच्यते-तत्र युगपद्गुणस्थानकं प्रतिपन्नानां बहूनामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य व्यावृत्तिनिवृत्तिः सा नास्त्यस्येत्यनिवृत्तिः । समकालमेतद्गुणस्थानकमारूढस्यापरस्य यस्मिन् समये यदध्यवसायस्थानमसावपि विवक्षितः पुरुषस्तस्मिन् समये तदेवाध्यवसायस्थानमनुवर्तत इति यावत् । संपरैति पर्यटति संसारमनेनेति संपरायः कषायोदयः, बादरः सूक्ष्मकिट्टीकृतसंपरायापेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः, अनिवृत्तिश्चासौ बादरसंपरायश्च तस्य गुणस्थानं अनिवृत्तिबादरसंपरायगुणस्थानम् । तस्यां चानिवृत्तिबादरसंपरायगुणस्थानकाद्धायामान्तमौहूर्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानं भवति । यावन्तश्चान्तर्मुहूर्ते समयास्तावन्त्येवाध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात् । स चानिवृत्तिबादी द्वेधा, क्षपक उपशमकश्च । क्षपयत्युपशमयति वा मोहनीयं कर्मेतिकृत्वा ॥ तथा सूक्ष्मः किट्टीकृतः संपरायो लोभकषायोदयरूपो यस्य स सूक्ष्मसंपरायः। स द्विधा, क्षपक उपशमकश्च । क्षपयति उपशमयति वा लोभमेकमितिकृत्वा तस्य गुणस्थानं सूक्ष्मसंपरायगुणस्थानम् ॥ तथा छादयति ज्ञानादिगुणमात्मन इति च्छद्म ज्ञानावरणीयादिधातिकर्मोदयः। छद्मनि तिष्ठतीति च्छद्मस्थः। स च सरागोऽपि भवतीति तद्व्यवच्छेदार्थ वीतरागग्रहणम् । वीतो विगतो रागो मायालोभकषायोदयरूप उपलक्षणत्वादस्य द्वेषोऽपि क्रोधमानोदयरूपो यस्यासौ वीतरागः स चासौ छद्मस्थश्च वीतरागच्छद्मस्थः । स च क्षीणकषायोऽपि भवति तस्यापि यथोकरागापगमात्, अतस्तव्यवच्छेदार्थमुपशान्तकषाय
For Private And Personal Use Only